अनुशासनपर्व

अध्यायः २२

Anusasana Parva (Sanskrit) · Adhyaya 22
अक्षर का आकार

`भीष्म उवाच।

विनता तु तथेत्युक्त्वा कृतसंशयना पणे।
कद्रूरपि तथेत्युक्त्वा पुत्रानिदमुवाच ह।।

मया कृतः पणः पुत्रा मिथो विनतया सह।
उच्चैरश्रवसि गान्धर्वे तच्छृणुध्वं भुजङ्गमाः।।

अब्रवं नैकवर्णं तं सैकवर्णमथाब्रवीत्।
जिता दासी भवेत्पुत्राः सा वाऽहं वा न संशयः।।

एकवर्णश्च वाजी स चन्द्रकोकनदप्रभः।
साऽहं दासी भविष्यामि जिता पुत्रा न संशयः।।

ते यूयमश्वप्रवरमाविशध्वमतन्द्रिताः।
सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः।।

सर्पा ऊचुः।

निकृत्या न जयः श्रेयान्मातः सत्या गिरः शृणु।
आयत्यां च तदात्वे च न च धर्मोऽत्र विद्यते।।

सा त्वं धर्मादपेतं वै कुलस्यैवाहितं तव।
निकृत्या विजयं मातर्मा स्म कार्षीः कथञ्चना।।

यद्यधर्मेण विजयं वयं काङ्क्षामहे क्वचित्।
त्वया नाम निवार्याः स्म मा कुरुध्वमिति ध्रुवम्।।

सा त्वमस्मानपि सतो विपापानृजुबुद्धिनः।
कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता।।

ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश।
यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम्।।

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते।।

कद्रूरुवाच।

शृणोमि विविधा वाचो हेतुमत्यः समीरिताः।
वक्रमार्गनिवृत्त्यर्थं तदहं वो न रोचये।।

न च तत्पणितं मन्दाः शक्यं जेतुमतोऽन्वथा।
जिते निकृत्या श्रुत्वैतत्क्षेमं कुरुत पुत्रकाः।।

श्वोऽहं प्रभातसमये जिता धर्मेण पुत्रकाः।
शैलूषिणी भविष्यामि विनताया न संशयः।।

इह चामुत्र चार्थाय पुत्रानिच्छन्ति मातरः।
सेयमीहा विपन्ना मे युष्मानासाद्य सङ्गताम्।।

इह वा तारयेत्पुत्रः प्रेत्य वा तारयेत्पितॄन्।
मात्र चित्रं भवेकिञ्चित्पुनातीति च पुत्रकः।।

ते यूयं तारणार्थाय मम पुत्रा मनोजवाः।
आविशध्वं हयश्रेष्ठं वाला भूत्वाऽञ्जनप्रभाः।।

जानाम्यधर्मं सकलं विजिता विनता भवेत्।
निकृत्या दासभावस्तु युष्मानप्यवपीडयेत्।।

निकृत्या विजयो वेति दासत्वं वा पराभवे।
उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः।।

यद्यप्यधर्मो विजयो युष्मानेव स्पृशेत्पुनः।
गुरोर्वचनमास्थाय धर्मो वा सम्भविष्यति'।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वाविंशोऽध्यायः।। 22 ।।