अनुशासनपर्व

अध्यायः २२८

Anusasana Parva (Sanskrit) · Adhyaya 228
अक्षर का आकार

उमोवाच।

भगवन्सर्वभूतेश लोके कर्मक्रियापथे।
दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः।।

अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम्।
पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम।
तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता।
तदेवं कुरुते कर्म लोके देवि शुभाशुभम्।।

लक्ष्यते द्विविधं कर्म मानुषेष्वेव तच्छृणु।
पुराकृतं तयोरेकमैहिकं त्वितरस्तथा।।

अदृष्टपूर्वं यत्कर्म तद्दैवमिति लक्ष्यते।
विहीनं दृष्टकरणं तन्मानुषमिति स्मृतम्।।

मानुषं तु क्रियामात्रं दैवात्सम्भवते फलम्।
एवं तदुभयं कर्म मानुषं विद्धि तन्नृषु।।

लौकिकं तु प्रवक्ष्यामि दैवमानुषनिर्मितम्।
कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा।।

रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम्।
दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे।।

सुयत्नाल्लभ्यते कीर्तिर्दुर्यत्नादयशस्तथा।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते।।

उमोवाच।

भगवन्सर्वलोकेश सुरासुरनमस्कृत।
कथमात्मा सदा गर्भं संविशेष्कर्मकारणात्।
तन्मे वद महादेव तद्धि गुह्यं परं मतम्।।

महेश्वर उवाच।

शृणु भामिनि तत्सर्वं गुह्यानां परमं प्रिये।
देवगुह्यादपि परमात्मगुह्यमिति स्मृतम्।।

देवासुरास्तन्न विदुरात्मनो हि गतागतम्।
अदृश्यो हि सदैवात्मा जनैः सौक्ष्म्यान्निराश्रयात्।।

अतिमायेति मायानामात्ममाया सेदष्यते।
सोयं चतुर्विधां जातिं संविशत्यात्ममायया।
मैथुनं शोणितं बीजं दैवमेवात्र कारणम्।।

बीजशोणितसंयोगे यदा सम्भवते शुभे।
तदाऽऽत्मा विशते गर्भमेवमण्डजरायुजे।।

एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान्।।

कलिलाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत्।
व्यक्तिभावगतं चैव कर्म त्वाश्रयते क्रमात्।।

एवं विवर्धमानेन कर्मात्मा सह वर्धते।
एवमात्मगतिं विद्धि यन्मां पृच्छसि सुप्रभे।।

रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम्।।

काले वृष्टिः सुवापं च प्ररोहः पक्तिरेव च।
एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम्।।

पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा।
अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते।।

तादृशं कारणं दैवं शुभं वा यदि वेतरत्।
यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम्।।

केवलं फलनिष्पत्तिरेकेन तु न शक्यते।
पौरुषेणैव दैवेनि युगपद्ग्रथितं प्रिये।
तयोः समाहितं कर्म शीतोष्णं युगपत्तथा।।

पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता।
आत्मना तु न शक्यं हि न तथा कीर्तिमाप्नुयात्।।

खननान्मथनाल्लोके जलाग्निप्रापणं यथा।
तथा पुरुषकारे तु दैवसम्पत्समाहिता।।

नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते।
तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः।।

असुरा राक्षसाश्चैव मन्यन्ते लोकनाशनाः।
पश्यन्ते न च ते पापाः केवलं मांसभक्षणाः।।

प्रच्छादितं हि तत्सर्वं गूढमाया हि देवताः।
तदहं ते प्रवक्ष्यामि देवि गुह्यं पुरस्सरम्।।

आदिकाले नराः सर्वे कृत्वा कर्म शुभाशुभम्।
भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः।।

यथैवात्मकृतं विद्युर्देशान्तरगता नराः।
विद्युस्तथैवान्तकाले सुकृतं पौर्वदैहिकम्।।

एवं व्यवस्थिते लोके सर्वे धर्मरताऽभवन्।
अचिरेणैव कालेन स्वर्गः सम्पूरितस्तदा।।

देवानामपि सम्बाधं दृष्ट्वा ब्रह्माऽप्यचिन्तयत्।
सञ्चरन्ते कथं स्वर्गं मानुषाः प्रविशन्ति हि।।

इत्येवमनुचिन्त्यैव मानुषान्सममोहयत्।
तदाप्रभृति ते मर्त्या न विदुस्ते पुराकृतम्।।

कामक्रोधौ तु तत्काले मानुषेष्ववपातयत्।
ताभ्यामभिहता मर्त्याः स्वर्गलोकं न पेदिरे।।

पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडिताः।
नैतदस्तीति मन्वाना विकारंश्चक्रिरे पुनः।।

अकार्यादिमहादोषानाहरन्त्यात्मकारणात्।
विस्मृत्य धर्मकार्याणि परलोकभयं तदा।।

एवं व्यवस्थिते लोके कश्मलं समपद्यत।
लोकानां चैव देवानां क्षयायैव तथा प्रिये।
नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः।।

पुनरेव तु तान्दृष्ट्वा लोककर्ता पितामहः।
अचिन्तयत्तमेवार्थं लोकानां हितकारणात्।
समत्वेन कथं लोके वर्तेतेति मुहुर्मुहुः।।

चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये।
अकरोज्ज्ञानदृश्यं तत्परलोकं न चक्षुषा।।

उमोवाच।

भगवन्मृतमात्रस्तु योयं जात इति स्मृतः।
तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत्।।

गर्भादावेव संविष्ट आत्मा तु भगवन्मम।
एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता।

अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः।
पुनरन्यच्छरीरं तत्प्रविश्य भुवि जायते।
तत्वविन्नैव सर्वस्तु दैवयोगस्तु सम्भवेत्।।

सूतिकाया हितार्थं च मोहनार्थं च देहिनाम्।
समकर्मविधानत्वादित्येवं विद्धि शोभने।।

काङ्क्षमाणास्तु नरकं भुक्त्वा केचित्प्रयान्ति हि।
मायासंयामिका नाम यज्जन्ममरणान्तरे।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।

उमोवाच।

भगवन्सर्वलोकेश लोकनाथ वृषध्वज।
नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते।।

स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा।
यथोर्मयः सम्भवन्ति तथैव जगदाकृतिः।।

तपोदानानि यत्कर्म तत्र तद्दृश्यते वृथा।
नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः।।

परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात्।
तत्सर्वं नास्तिनास्तीति संशयस्थास्तथा परे।।

पक्षभेदान्तरे चास्मिंस्तत्वं मे वक्तुमर्हसि।
उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः।।

प्रश्नमेतत्तु पृच्छत्या रुद्राण्या परिषत्तदा।
कौतूहलयुता श्रोतुं समाहितमनाऽभवत्।।

महेश्वर उवाच।

नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः।
एतदेवाभिशस्तानां श्रुतविद्वेषिणां मतम्।।

सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव।
तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः।।

कामान्संछिद्य परिगान्धृत्या वै परमासिना।
अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणः पलम्।।

एवं श्रद्धाफलं लोके परतः सुमहत्फलम्।
बुद्धिः श्रद्धा च विनयः कारणानि हितैषिणाम्।।

तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः।
अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः।।

श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः।
निष्क्रियास्तु निरन्नादाः पतन्त्येवाधमां गतिम्।।

नास्त्यस्तीति पुनर्जन्म कवयोऽप्यत्र मोहिताः।
नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि।।

एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः।
किंपुनर्मानवैर्लोके ज्ञातुकामैः कुबुद्धिभिः।।

केवलं श्रद्धया देवि श्रुतमात्मनिविष्टया।
ततोस्तीऽत्येव मन्तव्यं तथा हितमवाप्नुयात्।।

दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः।
बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा।
एतत्ते कथितं देवि ऋषिगुह्यं प्रजाहितम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः।। 228 ।।