अनुशासनपर्व
अध्यायः २२७
उमोवाच।
भगवन्देवदेवेश कर्मणैव शुभाशुभम्।
यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः।।
परेषां विप्रियं कुर्वन्यथा सम्प्राप्नुयाच्छुभम्।
यद्येतदस्मिंश्चेद्देहे तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदप्यस्ति महाभागे अभिसन्धिबलान्नृणम्।
हितार्थं दुःखमन्येषां कृत्वा सुखमवाप्नुयात्।।
दण्डयन्भर्त्सयन्राजा जनान्पुण्यमवाप्नुयात्।
गुरुः सन्तर्जयञ्शिष्यान्भर्ता भृत्यजनान्स्वकान्।
उन्मार्गप्रतिपन्नांश्च शास्ता धर्मफलं लभेत्।।
चिकित्सकश्च दुःखानि जनयन्हितमाप्नुयात्।
यज्ञार्थं पशुहिंसां च कुर्वन्नपि न लिप्यते।
एवमन्ये सुमनसो हिंसकाः स्वर्गमाप्नुयुः।।
एकस्मिन्निहते भद्रे बहवः सुखमाप्नुयुः।
तस्मिन्हते भवेद्धर्मः कुत एव तु पातकम्।।
अहिंसतेति हत्वा तु शुद्धे कर्मणि गौरवात्।
अभिसन्धेरजिह्मत्वाच्छुद्धे धर्मस्य गौरवात्।
एतत्कृत्वा तु पापेभ्यो न दोषं प्राप्नुयुः क्वचित्।।
उमोवाच।
चतुर्विधानां जन्तूनां कथं ज्ञानमिह स्मृतम्।
कृत्रिमं तत्स्वभावं वा तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
स्थावरं जङ्गमं चैव जगद्द्विविधमुच्यते।
चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा।।
तेषामुद्भिदजा वृक्षा लतावल्ल्यश्च वीरुधः।
दंशयूकादयश्चान्ये स्वेदजाः क्रिमिजातयः।।
पक्षिणश्छिद्कर्णाश्च प्राणिनस्त्वण्डजा मताः।
मृगव्यालमनुष्यांश्च विद्धि तेषां जरायुजान्।।
एवं चतुर्विधां जातिमात्मा संसृत्य तिष्ठति।।
स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्युद्भिदजेषु वै।
शरीरस्पर्शरूपाभ्यां स्वेदजेष्वपि तिष्ठति।।
पञ्चभिश्चेन्द्रियद्वारैर्जीवन्त्यण्डजरायुजाः।।
तथा भूम्यम्बुसंयोगाद्भवन्त्युद्भिदजाः प्रिये।
शीकतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये।
अण्डजाश्चापि जायन्ते संयोगात्क्लेदबीजयोः।।
शुक्लशोणितसंयोगात्सम्भवन्ति जरायुजाः।
जरायुजानां सर्वेषां मानुषं पदमुत्तमम्।।
अतःपरं तमोत्पत्तिं शृणु देवि समाहिता।
द्विविधं हि तमो लोके शार्वरं देहजं तथा।।
जोतिर्भिश्च तमो लोके नाशं गच्छति शार्वरम्।
देहजं तु तमो लोके तैः समस्तैर्न शाम्यते।।
तमसस्तस्य नाशार्थं नोपायमधिजग्मिवान्।
तपश्चचार वलिपुलं लोककर्ता पितामहः।।
चरतस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः।
ताँल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया।
देहजं तु तमो घोरमभूत्तैरेव नाशितम्।।
कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति।
यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम्।
पसुभिर्निर्विशेषं तु चेष्टन्ते मानुषा अपि।।
यज्ञादीनां समारम्भः श्रुतेनैव विधीयते।
यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते।।
प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत।
एवं नित्यं प्रवर्धेते रोदसी च परस्परम्।।
लोकसन्धारणं तस्माच्छ्रुतमित्यवधारय।
ज्ञानाद्विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि च।।
सहजं तत्प्रधानं स्यादपरं कृत्रिमं स्मृतम्।
उभयं यत्र सम्पन्नं भवेत्तत्र तु शोभनम्।।
सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत।
उपर्युपरि मर्त्यानां देववत्सम्प्रकाशते।।
कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम्।
तच्छ्रुतं नुदति क्षिप्रं यथा वायुर्बलाहकान्।।
अल्पमात्रं कृतो धर्मो भवेज्झानवतां महान्।
महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत्।।
परावरझो भूतानां ज्ञानवांस्तत्वविद्भवेत्।
एवं श्रुतफलं सर्वं कथितं ते शुभक्षणे।।
उमोवाच।
भगवन्मानुषाः केचिज्जातिस्मरणसंयुताः।
किमर्थमभिजायन्ते जानन्तः पौर्वदैहिकम्।
एतन्मे तत्वतो देव मानुषेषु वदस्व भो।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता।।
ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः।
तेषां पौराणिको बोधः कञ्चित्कालं हि तिष्ठति।।
तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः।
तेषां विवर्धतां संज्ञा स्वप्नवत्सा प्रणश्यति।
परलोकस्य चास्तित्वे मूढानां कारणं च तत्।।
उमोवाच।
भगवन्मानुषाः केचिन्मृता भूत्वाऽपि सम्प्रति।
निवर्तमाना दृश्यन्ते देहेष्वेव पुनर्नराः।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने।।
प्राणैर्वियुज्यमानानां बहुत्वात्प्राणिनां वधे।
तथैव नामसामान्याद्यमदूता नृणां प्रति।।
वहन्ति ते क्वचिन्मोहादन्यं मर्त्यं तु यामिकाः।
निर्विकारं हि तत्सर्वं यमो वेद कृताकृतम्।।
तस्मात्संयमनीं प्राप्य यमेनैकेन मोक्षिताः।
पुनरेव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः।
स्वकर्मण्यसमाप्ते तु निवर्तन्ते हि मानवाः।।
उमोवाच।
भगवन्सुप्तमात्रेण प्राणिनां स्वप्नदर्शनम्।
किं तत्स्वभावमन्यद्वा तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
सुप्तानां तु मनश्चेष्टा स्वप्न इत्यभिधीयते।
अनागतमतिक्रान्तं पश्यते सञ्चरन्मनः।।
निमित्तं च भवेत्तस्मात्प्राणिनां स्वप्नदर्शनम्।
एतत्ते कथितं देवि भूयः श्रोतु किमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः।। 227 ।।