अनुशासनपर्व
अध्यायः २२२
उमोवाच।
भगवन्देवदेवेश शूलपाणे वृषध्वज।
पुंश्चल्य इव या स्त्रीषु नीचवृत्तिरताः स्मृताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः।
कामरागसमायुक्ताः पतीनतिचरन्ति वै।।
प्रतिकूलपरा यास्तु पतीन्प्रति यथा तथा।
शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारणाः।।
एवंयुक्तसमाचारा यमलोके सुदण्डिताः।
यदि वै मानुषं जन्म लभेरंस्तास्तथाविधाः।
बहुसाधारणा एव पुंश्चल्यश्च भवन्ति ताः।।
पौश्चल्यं यत्तु तद्वृत्तं स्त्रीणां कष्टतमं स्मृतम्।
ततःप्रभृति ता देवि पतन्त्येव न संशयः।।
शोचन्ति चेत्तु तद्वृत्तं मनसा हितमाप्नुयुः।।
उमोवाच।
भगवन्देवदेवेश प्रमदा विधवा भृशम्।
दृश्यन्ते मानुषा लोके सर्वकल्याणवर्जिताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः।
कुटुम्बं तत्र वे पत्युर्नाशयन्ति वृथा तथा।।
विषदाश्चाग्निदाश्चैव पतीन्प्रति सुनिर्दयाः।
अन्यासां हि पतीन्यान्ति स्वपतिद्वेषकारणात्।।
एवंयुक्तसमाचारा यमलोके सुदण्डिताः।
निरयस्थाश्चिरं कालं कथंचित्प्राप्य मानुषम्।
तत्र ता भोगरहिता विधवास्तु भवन्ति वै।।
उमोवाच।
भगवन्प्रमदा लोके पत्यौ ज्ञातिषु सत्सुच।
लिङ्गिन्यः सम्प्रदृश्यन्ते पाषण्डं मतमाश्रिताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
याः पुरा भावदोषेणि लोभमोहसमन्विताः।
परद्रव्यपरा लोभात्परेषां द्रव्यहारकाः।।
अभ्यसूयापरा यास्तु सपत्नीनां प्रदूषकाः।
ईर्ष्यापराः कोपनाश्च बन्धूनां विफलाः सदा।।
एवंयुक्तसमाचाराः पुनर्जन्मनि ताः स्त्रियः।
अलक्षणसमायुक्ताः पाषण्डं धर्ममाश्रिताः।
स्त्रियः प्रव्राजशीलाश्च भवन्त्येव न संशयः।।
उमोवाच।
भगवन्मानुषाः केचित्कारुवृत्तिसमाश्रिताः।
प्रदृश्यन्ते मनुष्येषु नीचकर्मरतास्तथा।
केन कर्मविपाकेन तन्मे शंसितुमर्हति।।
महेश्वर उवाच।
ये पुरा मनुजा देवि स्तब्धमानयुता भृशम्।
दर्पाहङ्कारसंयुक्ताः केवलात्मपरायणाः।।
तादृशा मानुषा देवि पुनर्जन्मनि शोभने।
कात्वो नटगन्धर्वाः सम्भवन्ति यथा तथा।।
नापिता बन्दिनश्चैव तथा वैतालिकाः प्रिये।
एवंभूतास्त्वधोवृत्तिं जीवन्त्याश्रित्य मानवाः।।
परप्रसाधनकरास्ते परैः कृतवेतनाः।
परावमानस्य फलं भुञ्जते पौर्वदैहिकम्।।
उमोवाच।
भगवन्देवदेवेश मानुषेष्वेव केचन।
दासभूताः प्रदृश्यन्ते सर्वकर्मपरा भृशम्।।
आघातभर्त्सनसहाः पीड्यमानाश्च सर्वशः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्।।
ये पुरा मनुजा देवि परेषां वित्तहारकाः।
ऋणवृद्धिकरं कृष्या न्यासदत्तं तथैव च।।
निक्षेपकारणाद्दत्तपरद्रव्यापहारिणः।
प्रमादाद्विस्मृतं नष्टं परेषां धनहारकाः।।
वधबन्धपरिक्लेशैर्दासत्वं कुर्वते परान्।
तादृशा मरणं प्राप्ता दण्डिता यमशासनैः।।
कथञ्चित्प्राप्य मानुष्यं तत्र ते देवि सर्वथा।
दासभूता भविष्यन्ति जन्मप्रभृति मानवाः।।
तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः।
आसमाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः।।
पशुभूतास्तथा चान्ये भवन्ति धनहारकाः।
तत्तथा क्षीयते कर्म तेषां पूर्वापराधजम्।
अतोऽन्यथा न तच्छक्यं कर्म भोक्तुं सुरासुरैः।।
किन्तु मोक्षविधिस्तेषां सर्वता तत्प्रसादनम्।
अयथावन्मोक्षकामः पुनर्जन्मनि चेष्यते।।
मोक्षकामी यथान्यायं कुर्वन्कर्माणि सर्वशः।
भर्तुः प्रसादमाकाङ्क्षेदायासान्सर्वथा सहन्।।
प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः।
तथाभूतान्कर्मकरान्सदा सन्तोषयेत्पतिः।।
यथार्हं कारयेत्कर्म दण्डकारणतः क्षिपेत्।
वृद्धान्बालांस्तथा क्षीणान्पालयन्धर्ममाप्नुयात्।।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः।।