अनुशासनपर्व

अध्यायः २२१

Anusasana Parva (Sanskrit) · Adhyaya 221
अक्षर का आकार

उमोवाच।

भगवन्देवदेवेश भूतपाल नमोस्तु ते।
ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा।।

अपरे मानुषा देव दृश्यन्ते कुणिबाहवः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि लोभमोहसमन्विताः।
धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात्।।

कुलदोषं तदा देवि धृतमानेषु नित्यशः।
अर्धापकर्षणं चैव सर्वेषां क्रयविक्रये।।

अङ्गदोषकरा ये तु परेषां कोपकारणात्।
मांसादाश्चैव ये मूर्खा अयथावत्प्रथाः सदा।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते।।

उमोवाच।

भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै।
उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि दर्पाहंकारसंयुताः।
बहुधा प्रलपन्त्येव हसन्ति च परान्भृशम्।।

मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात्।
वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च।
शौण्डा विदग्धाः शास्त्रेषु सदैवानृतवादिनः।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः।।

उमोवाच।

भगवन्मानुषाः केचिन्निरपत्याः सुदुःखिताः।
यतन्तो न लभन्त्येव अपत्यानि यतस्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः।
घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि।।

गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः।
पितृपूजां न कुर्वन्ति यथोक्तां चाष्टकादिभिः।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
मानुष्यं वा चिरात्प्राप्य निरपत्या भवन्ति ते।
पुत्रशोकयुताश्चापि नास्ति तत्र विचारणा।।

उमोवाच।

भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः।
उद्वेगवासनिरताः सोद्वेगाश्च यतव्रताः।।

नित्यं शोकसमाविष्टा दुर्गताश्च तथैव च।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा नित्यमुत्क्रोशनपरायणाः।
भीषयन्ति परानित्यं विकुर्वन्ति तथैव च।।

ऋणवृद्धिकराश्चैव दरिद्रेभ्यो यथेष्टतः।
ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः।।

उद्विजन्ते हि तान्दृष्ट्वा धारकाः स्वार्थकारणात्।
अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यो यथेष्टतः।।

ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान्।
प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः।।

येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान्।
एवंयुक्तसमाचाराः कालधर्मगताः पुनः।।

पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये।
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः।।

कुदेशे दुःखभूयिष्ठे व्याघातशतसङ्कुले।
जायन्ते तत्र शोचन्तः सोद्वेगाश्च यतस्ततः।।

उमोवाच।

भगवन्मानुषाः केचिदैश्वर्यज्ञानसंयुताः।
म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि धनधान्यसमन्विताः।
अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा।।

अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः।
ददत्येव च ये मूर्खाः श्लाघयाऽवज्ञयाऽपि वा।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे।
म्लेच्छाधिपत्यं सम्प्राप्य जायन्ते तत्रतत्र वै।।

उमोवाच।

भगवन्भगनेत्रघ्न मानुषेषु च केचन।
क्लीबा नपुंसकाश्चैव दृश्यन्ते षण्डकास्तथा।।

नीचकर्मरता नीचा नीचसक्यास्तथा भुवि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्।।

ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा।
पशुपंस्त्वोपगातेन जीवन्ति च रमन्ति च।।

पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात्।
ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः।।

कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात्।
एवंयुक्तसमाचाराः कालधर्मं गतास्तु ते।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये।।

यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
क्लीबा वर्षवराश्चैव षण्डकाश्च भवन्ति ते।।

नीचकर्मपरा लोके निर्लज्जा वीतसम्भ्रमाः।
परान्दीनान्बहिष्कृत्य ते भवन्ति स्वकर्मणा।।

यदि चेत्सम्प्रपश्येरंस्ते मुच्यन्ते हि कल्मषात्।
अत्रापि ते प्रमाद्येयुः पतन्ति नरकालये।।

स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम्।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः।। 221 ।।