अनुशासनपर्व

अध्यायः २२३

Anusasana Parva (Sanskrit) · Adhyaya 223
अक्षर का आकार

उमोवाच।

भगवन्मानुषेष्वेव मानुषाः समदर्शनाः।
चण्डाला इव दृश्यन्ते स्पर्शमात्रविदूषिताइः।।

नीचकर्मरता देव सर्वेषां मलहारकाः।
दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि तदेकाग्रमनाः शृणु।।

ये पुरा मनुजा देवि अतिमानयुता भृशम्।
आत्मसम्भावनायुक्ताः स्तब्धा दर्पसमन्विताः।।

प्रणामं तु न कुर्वन्ति गुरूणामपि पामराः।
ये स्वधर्मार्पणं कार्यमतिमानान्न कुर्वते।।

परान्संनामयन्त्येव आज्ञयात्मनि ये बलात्।
ऋद्धियोगात्परान्नित्यमवमन्यन्ति मानवान्।
पानपाः सर्वभक्षाश्च परुषाः कटुका नराः।।

एवंयुक्तसमाचाराक दण्डिता यमशासनैः।
कथंचित्प्राप्य मानुष्यं चण्डालाः सम्भवन्ति ते।।

नीचकर्मरताश्चैव सर्वेषां मलहारकाः।
परेषां वन्दनपरास्ते भवन्त्येव मानिनः।।

विरूपाः पापयोनिस्थाः स्पर्शनादिविवर्जिताः।
कुवृत्तिमुपजीवन्ति भुत्वा ते रजकादयः।
पुराऽतिमानदोषात्तु भुञ्जते स्वकृतं फलम्।।

तानप्यवस्ताकृपणांश्चण्डालानपि बुद्धिमान्।
न च निन्देन्नापि कुप्येद्भुञ्जते स्वकृतं फलम्।
चण्डाला अपि तां जातिं शोचन्तः शुद्धिमाप्नुयुः।।

उमोवाच।

भगवन्मानुषाः केचिदाशापाशशतैर्वृताः।
परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने।।

द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मानुषा देवि ऐश्वर्यस्थानसंयुताः।
संवादं तु न कुर्वन्ति परैरैश्वर्यमोहिताः।।

द्वाराणि न ददत्येव लोभमोहादिभिर्वृताः।
अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः।।

सर्वभोगयुता वाऽपि सर्वेषां निष्फला भृशम्।
अपि शक्ता न कुर्युस्ते परानुग्रहकारणात्।।

निर्दयाश्चैव निर्द्वारा भोगैश्वर्यगतिं प्रति।
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।।

यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
दुर्गता दुरवस्थाश्च कर्मव्याक्षेपसंयुताः।।

अभिधावन्ति ते सर्वे तमर्थमभिवेदिनः।
राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः।।

कर्म विज्ञापितुं द्रष्टुं न लभन्ते कथञ्चन।
प्रवेष्टुमपि ते द्वारं बहिस्तिष्ठन्ति काङ्क्षया।।

उमोवाच।

भगवन्मानुषाः केचिन्मनुष्येषु बहुष्वपि।
सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः।।

दृश्यन्ते मानुषाः केचिद्राजचोरोदकादिभिः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मानुषा देवि आसुरं भावमाश्रिताः।
परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः।।

उत्कोचनपराश्चैव पिशुनाश्च तथाविधाः।
परद्रव्यहरा घोराश्चौर्याद्वाऽन्येन कर्मणा।।

निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः।
नास्तिकाऽनृतभूयिष्ठाः परद्रव्यापहारिणः।।

एवंयुक्तसमाचारा दण्डिता यमशासनैः।
निरयस्थाश्चिरं कालं तत्र दुःखसमन्विताः।।

यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
तत्रस्थाः प्राप्नुवन्त्येव सहसा द्रव्यवाशनम्।।

कष्टं तत्प्राप्नुवन्त्येव कारणाकारणादपि।
नाशं विनाशं द्रव्याणामुपघातं च सर्वशः।।

उमोवाच।

भगवन्मानुषाः केचिद्बान्धवैः सहसा पृथक्।
कारणादेव सहसा सर्वेषां प्राणनाशनम्।।

शस्त्रेण वाऽन्यथा वाऽपि प्राप्नुवन्ति वधं नराः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि घोरकर्मरतानृताः।
आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशं।।

निर्दयाः प्राणिहिंसायां तथा प्राणिविघातकाः।
विश्वस्तघातकाश्चैव तथा सुप्तविघातकाः।
प्रायशोऽनृतभूयिष्ठा नास्तिका मांसभोजनाः।।

एवंयुक्तसमाचाराः कालधर्मं गताः पुनः।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये।।

तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात्।
यदि चेन्मानुपं जन्म लभेरंस्ते तथाविधाः।
तत्र ते प्राप्नुवन्त्येव वधबन्धान्यथा तथा।।

आढ्या वा दुर्गता वाऽपि भुञ्जते स्वकृतं फलम्।
सुप्ता मत्ताश्च विश्वस्तास्तथा ते प्राप्नुवन्त्युत।।

प्राणवाधकृतं दुःखं बान्धवैः सहसा पृथक्।
पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम्।।

उमोवाच।

भगवन्मानुषाः केचिद्राजनीतिविशार दैः।
दण्ड्यन्ते मानुषे लोके मानुषाः सर्वतोभयाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि मानुषांश्चेतराणि वा।
क्लिष्टघातेन निघ्नन्ति प्राणान्प्राणिषु निर्दयाः।
आसुर घोरकर्माणः क्रूरदण्डवधप्रियाः।।

ये दण्डयन्त्यदण्ड्यांश्च राजानः कोपमोहिताः।
हिंसाहङ्कारपरुषा मांसादा नास्तिकाशुभाः।।

केचित्स्त्रीपुरुषघ्नाश्च गुरुघ्नाश्च तथा प्रिये।
एवंयुक्तसमाचारा प्राणिधर्मं गताः पुनः।।

दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये।
पूर्वजन्मकृतं कर्म भुञ्जते तदिह प्रजाः।।

इहैव यत्कर्म कृतं तत्परत्र फलत्युत।
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते।।

न चर्षीणां न देवानाममृतत्वात्तपोबलात्।
तैरेकेन शरीरेण भुज्यते कर्मणः फलम्।।

न तथा मानुषाणां स्यादन्तर्धाय भवेद्धि तत्।।

उमोवाच।

किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः।
कृतापराधमुद्दिश्य हन्ता हर्ताऽयमित्युत।।

पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान्।
तैरेव हि शरीरेण भुञ्जन्ते कर्मणां फलम्।।

दृश्यन्ते मानुषे लोके तद्भवान्नानुमन्यते।
एतन्मे संशयस्थानं तन्मे त्वं छेत्तुमर्हसि।।

महेश्वर उवाच।

स्थाने संशयितं देवि तत्त्वं शृणु समाहिता।
कर्म कर्मफलं चेति युगपद्भुवि नेष्यते।।

ये त्वयाऽभिहिता देवि हन्ता हर्ताऽयमित्यपि।
तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः।।

देवि कर्म कृतं चैषां हेतुर्भवति शासने।
अपराधापरेशेन राजा दण्डयति प्रजाः।।

इह लोके व्यवस्थार्थं राजभिर्दण्डनं स्मृतम्।
उद्वेजनार्थं शेषाणामपराधं तमुद्दिशन्।।

पुराकृतफलं दण्डो दण्ड्यमानस्य तद्ध्रुवम्।
प्रागेव च मया प्रोक्तं तत्र निःसंशया भव।।

उमोवाच।

भगवन्भुवि मर्त्यानां दण्डितानां नरेश्वरैः।
दण्डेनैव तु तेनेह पापनाशो भवेन्न वा।

एतन्मया संशयितं तद्भवांश्छेत्तुमर्हति।।

महेश्वर उवाच।

स्थाने संशयितं देवि शृणु तत्वं समाहिता।।

ये नृपैर्दण्डिता भूमावपराधापदेशतः।
यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः।।

अदण्डिता वा ये मिथ्या मिथ्या वा दण्डिता भुवि।
तान्यमो दण्डयत्येव स हि वेद कृताकृतम्।
नातिक्रमेद्यमं कश्चित्कर्म कृत्वेह मानुषः।।

राजा यमश्च कुर्वाते दण्डमात्रं तु शोभने।
उभाभ्यां यमराजभ्यां दण्डितोऽदण्डितोपि वा।
पश्चात्कर्मफलं भुङ्क्ते नरके मानुषेषु वा।।

नास्ति कर्मफलच्छेत्ता कश्चिल्लोकत्रयेऽपि च।
इति ते कथितं सर्वं निर्विशङ्का भव प्रिये।।

उमोवाच।

किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः।
पुनस्तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते।।

सर्वपापहरं चेति हयमेधं वदन्ति च।
प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते।
तस्मान्मया संशयितं त्वं तच्छेत्तुमिहार्हसि।।

महेश्वर उवाच।

स्थाने संशयितं देवि शृणु तत्वं समाहिता।
संशयो हि महानेव पूर्वेषां च मनीषिणाम्।।

द्विधा तु क्रियते पापं सद्भिश्चासद्भिरेव च।
अभिसन्धाय वा नित्यमन्यथा वा यदृच्छया।।

केवलं चाभिसन्धाय संरम्भाच्च करोति यत्।
कर्मणस्तस्य नाशस्तु न कथंचन विद्यते।।

अभिसन्धिकृतस्यैव नैव नाशोस्ति कर्मणः।
अश्वमेधसहस्रैश्च प्रायश्चित्तशतैरपि।।

अन्यथा यत्कृतं पापं प्रमादाद्वा यदृच्छया।
प्रायश्चित्ताश्वमेधाब्यां श्रेयसा तत्प्रणश्यति।।

लोकसंव्यवहारार्थं प्रायश्चित्तादिरिष्यते।
विद्ध्येवं पापके कार्ये निर्विशङ्का भव प्रिये।।

इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।

उमोवाच।

भगवन्देवदेवेश मानुषाश्चेतरा अपि।
म्रियन्ते मानुषा लोके कारणाकारणादपि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि कारणाकारणादपि।
यथाऽसुभिर्वियुज्यन्ते प्राणिनः प्राणिनिर्दर्यः।।

तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम्।
विषदास्तु विषेणैव शस्त्रैः शस्त्रेण घातकाः।।

एवमेव यथा लोके मानुषान्घ्नन्ति मानुषाः।
कारणेनैव तेनाथ तता स्वप्राणनाशनम्।
प्राप्नुवन्ति पुनर्देवि नास्ति तत्र विचारणा।।

इति ते कथितं सर्वं कर्मपाकफलं प्रिये।
भूयस्तव समासेन कथयिष्यामि तच्छृणु।।

सत्यप्रमाणकरणान्नित्यमव्यभिचारि च।
यैः पुरा मनुजैर्देवि यस्मिन्काले यथा कृतम्।।

येनैव कारणेनापि कर्म यत्तु शुभाशुभम्।
तस्मन्काले तथा देवि कारणेनैव तेन तु।।

प्राप्नुवन्ति नराः प्रेत्य निःसन्देहं शुभाशुभम्।
इति सत्यं प्रजानीहि लोके तत्र विधिं प्रति।।

कर्मकर्ता नरो भोक्ता स नास्ति दिवि वा भुवि।
न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः।।

कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते।
एतदुद्देशतः प्रोक्तं कर्मपाकफलं प्रति।।

यदन्यच्च मया नोक्तं यस्मिंस्ते कर्मसङ्ग्रहे।
बुद्धितर्केण तत्सर्वं तथा वेदितुमर्हसि।
कथितं श्रोतुकामाया भूयः श्रोतुं किमिच्छसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि
त्रयोविंशत्यधिकद्विशततमोऽध्यायः।। 223 ।।