अनुशासनपर्व

अध्यायः २२०

Anusasana Parva (Sanskrit) · Adhyaya 220
अक्षर का आकार

उमोवाच।

भगवन्देवदेवेश मम प्रीतिविवर्धन।
`जात्यन्धाश्चैव दृश्यन्ते जाता वा नष्टचक्षुषः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

हन्त ते कथयिष्यामि शृणु कल्याणि कारणम्।।

ये पुरा कामकारेणि परवेश्मसु लोलुपाः।
परस्त्रियोऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषाः।।

अन्धीकुर्वन्ति यन्मर्त्यान्क्रोधलोभसमन्विताः।
लक्षणज्ञाश्च रूपेषु अयथावत्प्रदर्शकाः।।

एवं युक्तसमाचाराः कालधर्मवशास्तु ते।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये।।

यदि चेन्मानुषं जन्म लभेरंस्ते तथापि वा।
स्वभावतो वा जाता वा अन्धा एव भवन्ति ते।
अक्षिरोगयुता वाऽपि नास्ति तत्र विचारणा।।

उमोवाच।

मुखरोगयुताः केचिद्दृश्यन्ते सततं नराः।
दन्तकण्ठकपोलस्थैर्व्याधिभिर्बहुपीडिताः।।

आदिप्रभृति वै मर्त्या जाता वाऽप्यथ कारणात्।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

हन्त ते कथयिष्यामि शृणु देवि समाहिता।।

कुवक्तारस्तु ये देवि जिह्वया कटुकं भृशम्।
असत्यं परुषं घोरं गुरून्प्रति परान्प्रति।।

जिह्वाबाधां तदाऽन्येषां कुर्वते कोपकारणात्।
प्रायशोऽनृतभूयिष्ठा नराः कार्यवशेन वा।
तेषां जिह्वाप्रदेशस्था व्याधयः सम्भवन्ति ते।।

कुश्रोतारस्तु ये चार्यं परेषां कर्णनाशकाः।
कर्णरोगान्बहुविधाँल्लभन्ते ते पुनर्भवे।।

दन्तरोगशिरोरोगकर्णरोगास्तथैव च।
अन्ये दुःखाश्रिता दोषाः सर्वे चात्मकृतं फलम्।।

उमोवाच।

पीड्यन्ते सततं देव मानुषेष्वेव केचन।
कुक्षिपक्षाश्रितैर्दोषैर्व्याधिभिश्चोदराश्रितैः।।

तीक्ष्णिशूलैश्च पीड्यन्ते नरा दुःखपरिप्लुताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि कामक्रोधवशा भृशम्।
आत्मार्थमेव चाहारं भुञ्जन्ते निरपेक्षकाः।।

अभक्ष्याहारदानैश्च विश्वस्तानां विषप्रदाः।
अभक्ष्यभक्षदाश्चैव शौचमङ्गलवर्जिताः।।

मांसयुक्तसमाचाराः पुनर्जन्मनि शोभने।
कथञ्चित्प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः।।

तैस्तैर्बहुविधाकारैर्व्याधिभिर्दुःखसंश्रिताः।
भवन्त्येवं तथा देवि यथा चैवं तथा कृतम्।।

उमोवाच।

दृश्यन्ते सततं देव व्याधिभिर्मेहनाश्रितैः।
पीड्यमानास्तथा मर्त्या अश्मरीशर्करादिभिः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि परदारप्रधर्षकाः।
तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च।।

कामदोषेणि ये धूर्ताः कन्यासु विधवासु च।
बलात्कारेण गच्छन्ति रूपदर्पसमन्विताः।।

तादृशा मरणं पुनर्जन्मनि शोभने।
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
मेहनस्थैस्तथा घोरैः पीड्यन्ते व्यधिभिः प्रिये।।

उमोवाच।

भगवन्मानुषाः केचिद्दृश्यन्ते शोषिणः कृशाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः।
आत्मार्थे स्वादुगृद्धाश्च परभोगोपतापिनः।।

अभ्यसूयाश्चोपतापाः परभोगेषु ये नराः।
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने।।

शेषव्याधियुतास्तत्र नरा धमनिसंतताः।
भवन्त्येव नरा देवि पापकर्मोपभोगिनः।।

उमोवाच।

भगवन्मानुषाः केचित्क्लिश्यन्ते कण्ठरोगिणः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि परेषां रूपनाशनाः।
आघातवधबन्धैश्च वृथा दण्डेन मोहिताः।।

इष्टनाशकरा ये तु अपथ्याहारदा नराः।
चिकित्सका वा दुष्टास्च द्वेषलोभसमन्विताः।।

निर्दयाः प्राणिहिंसायां मलदाश्चित्तनाशनाः।
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।।

यदि वै मानुषं जन्म लभेरंस्तेषु दुःखिताः।
अत्र ते क्लेशसंयुक्ताः कण्ठरोगशतैर्वृताः।।

केचित्त्वग्दोषसंयुक्ता व्रणकुष्ठैश्च संयुताः।
श्वित्रकुष्ठयुता वाऽपि बहुधा कृच्छ्रसंयुताः।
भवन्त्येव नरा देवि यथा तेन कृतं फलम्।।

उमोवाच।

भगवन्मानुषाः केचिदङ्गहीनाश्च पङ्गव।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि लोभमोहसमावृताः।
प्राणिनां प्राणहिंसार्थमङ्गविघ्नं प्रकुर्वते।
शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः।।

एवं युक्तसमाचाराः पुनर्जन्मनि शोभने।
तदङ्गहीना वै प्रेत्य भवन्त्येव न संशयः।
स्वभावतो वा जाता वा पङ्गवश्च भवन्ति ते।।

उमोवाच।

भगवन्मानुषाः केचिद्ग्रन्थिभिः पिलकैस्तथा।
क्लिश्यमानाः प्रदृश्यन्ते तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम्।
मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः।
पाटकास्तोटकाश्चैव शूलतुन्नास्तथैव च।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
ग्रन्थिभिः पिलकैश्चैव क्लिश्यन्ते भृशदुःखिताः।।

उमोवाच।

भगवन्मानुषाः केचित्पादरोगसमन्विताः।
दृश्यन्ते सततं देव तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि क्रोधलोभसमन्विताः।
मनुजा देवतास्थानं स्वपादैर्भ्रंशयन्त्युत।
जानुभिः पार्ष्णिभिश्चैव प्राणिहिंसां प्रकुर्वते।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
पादरोगैर्बहुविधैर्बाध्यन्ते विपदादिभिः।।

उमोवाच।

भगवन्मानुषाः केचिद्दृश्यन्ते बहवो भुवि।
वातजैः पित्तजै रोगैर्युगपत्सान्निपातकैः।।

रोगैर्बहुविधैर्देव क्लिश्यमानाः सुदुःखिताः।
असमस्तैः समस्तैश्च आढ्या वा दुर्गतास्तथा।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्।।

ये पुरा मनुजा देवि त्वासुरं भावमाश्रिताः।
स्ववशाः कोपनपरा गुरुविद्वेषिणस्तथा।।

परेषां दुःखजनका मनोवाक्कायकर्मभिः।
छिन्दन्भिन्दन्स्तुदन्नेव नित्यं प्राणिषु निर्दयाः।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
यदि वै मानुषं जन्म लभेरंस्ते तथाविधाः।
तत्र ते बहुभिर्घोरैस्तप्यन्ते व्याधिभिः प्रिये।।

केचिद्वातादिसंयुक्ताः केचित्काससमन्विताः।
ज्वरातिसारतृष्णाभिः पीड्यमानास्तथा परे।।

पादगुल्मैश्च बहुभिः श्लेष्मदोषसमन्विताः।
पादरोगैश्च विविधैर्व्रणकुष्ठभगंदरैः।
आढ्या वा दुर्गता वाऽपि दृश्यन्ते व्याधिपीडिताः।

एवमात्मकृतं कर्म भुञ्जन्ते तत्रतत्र ते।
अभिभूतुं न शक्यं हि केनचित्स्वकृतं फलम्।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि विंशत्यधिकद्विशततमोऽध्यायः।।