अनुशासनपर्व

अध्यायः २१९

Anusasana Parva (Sanskrit) · Adhyaya 219
अक्षर का आकार

उमोवाच।

भगवन्देवदेवेश मानुषेष्वेव केचन।
ज्ञानविज्ञानसम्पन्ना बुद्धिमन्तो विचक्षणाः।।

दुर्गतास्तु प्रदृश्यन्ते यतमाना यथाविधि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्।।

ये पुरा मनुजा देवि श्रुतवन्तोपि केवलम्।
निरा**** निरन्नाद्या भृशमात्मपरायणाः।।

ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि।
निष्किञ्चना भवन्त्येव अनुप्तं हि न रोहति।।

उमोवाच।

मूर्खा लोके प्रदृश्यन्ते वृथा मूढा विचेतसः।
ज्ञानविज्ञानरहिताः समृद्धाश्च समन्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि बालिशा अपि सर्वतः।
समाचरन्ति दानानि दीनानुग्रहकारणात्।।

अबुद्धिपूर्वं वा दानं ददत्येव यतस्ततः।
ते पुनर्जन्मनि शुभे प्राप्नुवन्त्येव तत्तथा।।

पण्डितोऽपण्डितो वाऽपि भुङ्क्ते दानफलं नरः।
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत्फलत्युत।।

उमोवाच।

भगवन्देवदेवेश मानुषेष्वेव केचन।
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम्।
ज्ञानार्थं ते तु सङ्गृह्य तीर्थतो विधिपूर्वकम्।।

विधिनैव परांश्चैव ग्राहयन्ति च नान्यथा।
अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः।
विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः।।

तादृश मरणं प्राप्ताः पुनर्जन्मनि शोभने।
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः।।

उमोवाच।

अपरे मानुषा देव यतन्तोपि यतस्ततः।
बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धितः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः।
श्लाघमानाश्च तत्प्राप्य ज्ञानाहङ्कारमोहिताः।।

वदन्ति ये परान्नित्यं ज्ञानाधिक्येन दर्पिताः।
ज्ञानादसूयां कुर्वन्ति न सहन्ते च चापरान्।।

तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने।
मानुष्यं सुचिरात्प्राप्य तत्र बोधविवर्जिताः।
भवन्ति सततं देवि यतन्तो हीनमेधसः।।

उमोवाच।

भगवन्मानुषाः केचित्सर्वकल्याणसंयुताः।
पुत्रैर्दारैर्गुणयुतैर्दासीदासपरिच्छदैः।।

परमं बुद्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः।
व्याधिहीना नबाधाश्च रूपारोग्यबलैर्युताः।।

धनधान्येन सम्पन्नाः प्रासादैर्यानवाहनैः।
सर्वोपभोगसंयुक्ता नानाचित्रैर्मनोहरैः।।

ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिनेदिने।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता।।

ये पुरा मनुजा देवि आढ्या वा इतरेऽपि वा।
श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः।।

परेङ्गितपरा नित्यं दातव्यमिति निश्चिताः।
सत्यसन्धाः क्षमाशीला लोभमोहविवर्जिताः।।

दातारः पात्रतो दानं व्रतैर्नियमसंयुताः।
स्वदुःखमिव संस्मृत्य परदुःखविवर्जिताः।
सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः।।

एवंशीलसमाचाराः पुनर्जन्मनि शोभने।
दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः।।

मानुषेष्वपि ये जातास्तादृशाः सम्भवन्ति ते।
यादृशास्तु तथा प्रोक्ताः सर्वे कल्याणसंयुताः।।

रूपं द्रव्यं बलं चायुर्भोगैश्वर्यं बलं श्रुतम्।
इत्येतत्सर्वसाद्गुण्यं दानाद्भवति नान्यथा।
तपोदानमयं सर्वमिति विद्धि शुभानने।।

उमोवाच।

अथ केचित्प्रदृश्यन्ते मानुषेष्वेव मानुषाः।
दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः।।

भयैस्त्रिभिः समाजुष्टा व्याधिक्षुद्भयसंयुताः।
दुष्कलत्राभिभूताश्च सततं विघ्नदर्शकाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।

महेश्वर उवाच।

ये पुरा मनुजा देवि आसुरं भावमाश्रिताः।
क्रोधलोभसमायुक्ता निरन्नाद्याश्च निष्क्रियाः।।

नास्तिकाश्चैव धूर्ताश्च मूर्खाश्चात्मपरायणाः।
परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः।।

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
कथंचित्प्राप्य मानुष्यं तत्र ते दुःखपीडिताः।।

सर्वतः सम्भवन्त्येव पूर्वमात्मप्रमादतः।
यथा ते पूर्वकथितास्तथा ते सम्भवन्त्युत।।

शुभाशुभं कृतं कर्म सुखदुःखफलोदयम्।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः।। 219 ।।