अनुशासनपर्व

अध्यायः २१

Anusasana Parva (Sanskrit) · Adhyaya 21
अक्षर का आकार

`भीष्म उवाच।

विनता पुत्रशोकार्ता शापाद्भीता च भारत।
प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाऽभवत्।।

ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे।
गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली।।

बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान्।
रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः।।

यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ।
विनतापूर्वजः पुत्रः सोऽरुणो दृश्यते दिवि।।

पूर्वां दिशामभिप्रेत्य सूर्यस्योदयनं प्रति।
अरुणोऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः।।

जातमात्रस्तु विहगो गरुडः पन्नगाशनः।
विहाय मातरं क्षिप्रमगमत्सर्वतो दिशः।।

स तदा ववृधेऽतीव सर्वकामैः कदाऽर्चितः।
पितामहविसृष्टेन भोजनेन विशांपते।।

तस्मिंश्च विहगे तत्र यथाकामं विवर्धति।
कद्रूश्च विनता चैवागच्छतां सागरं प्रति।।

ददृशाते तु ते यान्तमुच्चैश्श्रवसमन्तिकात्।
स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम्।।

ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत्।
हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतः शुभे।।

विनतोवाच।

एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम।
वर्णं वा कीदृशं तस्य मन्यते त्वं मनस्विनि।।

कद्रूरुवाच।

सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः।
ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि।।

विनतोवाच।

यद्यार्ये दीव्यसि त्वं मे कः पणो नो भविष्यति।
सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया।।

कद्रूरुवाच।

जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे।
नैकवर्णैकवर्णत्वे विनते रोचते च ते।।

रोचते मे पणे राज्ञि दासीत्वेन न संशयः।
सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम्'।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकविंशोऽध्यायः।। 21 ।।