अनुशासनपर्व
अध्यायः २१८
उमोवाच।
भगवन्देवदेवेश त्र्यक्ष भो वृषभध्वज।
मानुषास्त्रिविधा देव दृश्यन्ते सततं विभो।।
आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः।
अपरे यत्नपूर्वं तु लभन्ते भोगसङ्ग्रहम्।।
अपरे यतमानाश्च न लभन्ते तु किञ्चन।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि।।
ये लोके मानुषा देवि दानधर्मपरायणाः।
पात्राणि विधिवज्ज्ञात्वा दूरतोप्यनुमानतः।।
अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च।
दानादि चेङ्गितैरेव तैरविज्ञातमेव वा।।
पुनर्जन्मनि ते देवि तादृशाः शोभना नराः।
अयत्नतस्तु तान्येव फलानि प्राप्नुवन्त्युत।।
आसीना एव भुञ्जन्ते भोगान्सुकृतभोगिनः।।
अपरे ये च दानानि ददत्येव प्रयाचिताः।
यदायदाऽर्थिने दत्त्वा पुनर्दानं च याचिताः।।
तावत्कालं ततो देवि पुनर्जन्मनि ते नराः।
यत्नतः श्रमसंयुक्ताः पुनस्तान्प्राप्नुवन्ति च।।
याचिता अपि केचित्तु अदत्त्वैव कथञ्चन।
अभ्यसूयापरा मर्त्या लोभोपहतचेतसः।।
ते पुनर्जन्मनि शुभे यतन्तो बहुधा नराः।
न प्राप्नुवन्ति मनुजा मार्गन्तस्तेऽपि किञ्चन।।
नानुप्तं रोहते सस्यं तद्वद्दानफलं विदुः।
यद्यद्ददाति पुरुषस्तत्तत्प्राप्नोति केवलम्।।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।
उमोवाच।
भगवन्भगनेत्रघ्न केचिद्वार्धकसंयुताः।
अभोगयोग्यकाले तु भोगांश्चैव धनानि च।।
लभन्ते स्थविरा भूता भोगैश्वर्यं यतस्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता।।
धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः।
प्राणान्तकाले सम्प्राप्ते व्याधिभिश्च निपीडिताः।।
आरभन्ते पुनर्धर्मं दातुं दानानि वा नराः।
ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः।।
अतीतयौवने काले स्थविरत्वमुपागताः।
लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे।।
एतत्कर्मफलं देवि कालयोगाद्भवत्युत।।
उमोवाच।
भोगयुक्ता महादेव केचिद्व्याधिपरिप्लुताः।
असमर्थाश्च तान्भोक्तं भवन्ति किमु कारणम्।।
महेश्वर उवाच।
व्याधियोगपरिक्लिष्टा ये निराशाः स्वजविते।
आरभन्ते तदा कर्तुं दानानि शुभलक्षणम्।।
ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्युत।
असमर्थाश्च तान्भोक्तुं व्याधितास्ते भवन्त्युत।।
उमोवाच।
भगवन्देवदेवेश मानुषेष्वेव केचन।
रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता।।
ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः।
शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः।।
अमांसभोजिनश्चैव सदा प्राणिदयायुताः।
प्रतिकर्मप्रदा वाऽपि वस्त्रदा धर्मकारणात्।
भूमिशुद्धिकरा वाऽपि कारणादग्निपूजकाः।।
एवं युक्तसमाचाराः पुनर्जन्मनि ते नराः।
रूपेण स्पृहणीयास्तु भवन्त्येव न संशयः।।
उमोवाच।
विरूपाश्च प्रदृश्यन्ते मानुषेष्वेव केचन।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्।।
रूपयोगात्पुरा मर्त्या दर्पाहंकारसंयुताः।
विरूपहासकास्चैव स्तुतिनिन्दादिभिर्भृशम्।।
परोपतापनाश्चैव मांसादाश्च तथैव च।
अभ्यसूयापराश्चैव अशुद्धाश्च तथा नराः।।
एवं युक्तसमाचारा यमलोके सुदण्डिताः।
कथंचित्प्राप्य मानुष्यं तत्र ते रूपवर्जिताः।
विरूपाः सम्भवन्त्येव नास्ति तत्र विचारणा।।
उमोवाच।
भगवन्देवदेवेश केचित्सौभाग्यसंयुताः।
रूपभोग्यविहीनाश्च दृश्यन्ते प्रमदाप्रियाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः।
स्वदारैरेव संतुष्टा दारेषु समवृत्तयः।।
दाक्षिण्येनैव वर्तन्ते प्रमदास्वप्रियास्वपि।
न तु प्रत्यादिशन्त्येव स्त्रीदोषान्गुणसंश्रितान्।
अन्नपानीयदाः काले नृणां स्वादुप्रदाश्च ये।
स्वदारवर्तिनश्चैव धृतिमन्तो निरत्ययाः।।
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने।
मानुषास्ते भवन्त्येव सततं सुभगा भृशम्।
अर्थादृतेऽपि ते देवि भवन्ति प्रमदाप्रियाः।।
उमोवाच।
दुर्भगाः सम्प्रदृश्यन्ते आढ्या भोगयुता अपि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता।।
ये पुरा मनुजा देवि स्वदारेष्वनपेक्षया।
यथेष्टवृत्तयश्चैव निर्लज्जा वीतसम्भ्रमाः।।
परेषां विप्रियकरा वाङ्मनःकायकर्मभिः।
निराश्रया निरानन्दाः स्त्रीणां हृदयकोपनाः।।
एवं युक्तसमाचाराः पनर्जन्मनि ते नराः।
दुर्भगास्तु भवन्त्येव स्त्रीणां हृदयविप्रियाः।
नास्ति तेषां रतिसुखं स्वदारेष्वपि किञ्चन।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः।।