अनुशासनपर्व
अध्यायः २१७
उमोवाच।
भगवन्भगनेत्रघ्न कालसूदन शङ्कर।
इमे वर्णाश्च चत्वारो विहिताः स्वस्वभावतः।
उताहो क्रियया वर्णाः सम्भवन्ति महेश्वर।।
एवं मे संशयप्रश्नस्तं मे छेत्तुं त्वमर्हसि।।
महेश्वर उवाच।
स्वभावादेव विद्यन्ते चत्वारो ब्राह्मणादयः।
एकजात्या सुदुष्प्रापमन्यवर्णत्वमागतम्।।
तच्च कर्मविशेषेण पुनर्जन्मनि जायते।
तस्मात्तेषां प्रवक्ष्यामि तत्सर्वं कर्मपाकजम्
ब्राह्मणस्तु नरो भूत्वा स्वजातिमनुपालयन्।
दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत्।।
सत्यार्जवपरो भूत्वा दानयज्ञपरस्तथा।
सत्यां जात्यां समुदितो जातिधर्मान्न हापयेत्।।
एवं संवर्तमानस्तु कालधर्मं गतः पुनः।
स्वर्गलोके हि जायेत स्वर्गभोगाय भामिनि।।
तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते।
एवंस्वकर्मणा मर्त्यः स्वजातिं लभते पुनः।।
अपरस्तु तथा कश्चिद्ब्रह्मयोनिसमुद्भवः।
अवमत्यैव तां जातिमज्ञानतमसा वृतः।।
अन्यथा वर्तमानस्तु जातिकर्माणि वर्जयेत्।
शूद्रवद्विचरेल्लोके शूद्रकर्माभिलाषवान्।
शूद्रैः सह चरन्नित्यं शौचमङ्गलवर्जितः।
स चापि कालधर्मस्थो यमलोके सुदण्डितः।
यदि जायेत मर्त्येषु शूद्र एवाभिजायते।।
शूद्र एव भवेद्देवि ब्राह्मणोऽपि स्वकर्मणा।।
तथैव शूद्रस्त्वपरः शूद्रकर्माणि वर्जयेत्।
सत्यार्जवपरो भूत्वा दानधर्मपरस्तथा।
मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः।।
एवं युक्तसमाचारः शूद्रोपि मरणं गतः।
स्वर्गलोके हि जायेत तत्क्षये नृषु जायते।
ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते।।
एवमेव सदा लोके शूद्रो ब्राह्मण्यमाप्नुयात्।।
एवं क्षत्रियवैश्याश्च जातिधर्मेण संयुताः।
स्वकर्मणैव जायन्ते विशिष्टेष्वधमेषु च।।
एवं जातिविपर्यासः प्रेत्यभावे भवेन्नृणाम्।
अन्यथा तु न शक्यं तल्लोकसंस्थितिकारणात्।।
तस्माज्जातिं विशिष्टां तु कथंचित्प्राप्य पण्डितः।
सर्वथा तां तथा रक्षेन्न पुनर्भ्रश्यते यथा।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।
उमोवाच।
जन्मप्रभृति कः शुद्धो लभेज्जन्मफलं नरः।
शोभनाशोभनं सर्वमधइकारवशात्स्वकम्।।
महेश्वर उवाच।
कर्म कुर्वन्न लिप्येत आर्जवेन समाचरेत्।
आत्मैव तच्छुभं कुर्यादशुभे योजयेत्परान्।।
शठेषु शठवत्कुर्योदार्यष्वार्यवदाचरेत्।
आपत्सु नावसीदेच्च घोरान्सङ्ग्रामयेत्परात्।
साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत्।।
अनर्थाधर्मशोकानां यथा न प्राप्नुयात्स्वयम्।
प्रीयते तत्तथा कर्तुमेतद्वृत्तं समासतः।।
एवं वृत्तं समासाद्य गृहमाश्रित्य मानवाः।
निराहारा निरुद्वेगाः प्राप्नुवन्त्युत्तमां गतिम्।।
एतज्जन्मफलं नित्यं सर्वेषां गृहवासिनाम्।
एवं गृहस्थितैर्नित्यं वर्तितव्यमिति स्थितिः।
एतत्सर्वं मया प्रोक्तं किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
सुरासुरपते देव वरद प्रीतिवर्धन।
मानुषेष्वेव ये के चिदाढ्याः क्लेशविवर्जिताः।
भुञ्जाना विविधान्भोगान्दृश्यन्ते निरुपद्रवाः।।
अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः।।
किमर्थं मानुषे लोके न समत्वेन कल्पिताः।
एतच्छ्रोतुं महादेव कौतूहलमतीव मे।।
महेश्वर उवाच।
न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि।
शृणु तत्सर्वमखिलं मानुषाणां हितं वचः।।
आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत्प्रजाः।
नित्यं न भवतो ह्यस्य रागद्वेषौ प्रजापतेः।
तदा तस्मात्सुराः सर्वे बभूवुः समतो नराः।।
एवं संवर्तमाने तु युगे कालविपर्ययात्।
केचित्प्रपेदिरे तत्र विषमं बुद्धिमोहिताः।।
तेषां हानिं ततो दृष्ट्वा तुल्यानामेव भामिनि।
ब्राह्मणास्ते समाजग्मुस्तत्तत्कारणवेदकाः।।
कर्तुं नार्हसि देवेश पक्षपातं त्वमीदृशम्।
पुत्रभावे समे देव किमर्थं नो भवेत्कलिः।।
एवमेतैरुपालब्धो ब्रह्मा वचनमब्रवीत्।
यूयं मा ब्रूत मे दोषं स्वकृतं स्मरथ प्रजाः।।
युष्माभिरेव युष्माकं ग्रथितं हि शुभाशुभम्।
यादृशं कुरुते कर्म तादृशं फलमश्नुते।
स्वकृतस्य फलं भुङ्क्ते नान्यस्तद्बोक्तुमर्हति।।
एवं संबोधितास्तेन कालकर्त्रा स्वयंभुवा।
पुनर्विवृत्य कर्माणि शुभान्येव प्रपेदिरे।।
एवं विज्ञाततत्वास्ते दानधर्मपरायणाः।
शुभानि विधिवत्कृत्वा कालधर्मगताः पुनः।
तानि दानफलान्येव भुञ्जते सुखभोगिनः।।
स्वकृतं तु नरस्तस्मात्स्वयमेव प्रपद्यते।।
अपरे धर्मकामेभ्यो निवृत्ताश्च शुभेक्षणे।
कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः।।
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने।
दरिद्राः क्लेशभूयिष्ठा भवन्त्येव न संशयः।।
उमोवाच।
मानुषेष्वथ ये केचिद्धनधान्यसमन्विताः।
भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्वपि।
न भुञ्जते किमर्थं ते तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
परैः संचोदिता धर्मं कुर्वते न स्वकामतः।
स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च।।
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने।
फलानि तानि सम्प्राप्य भुञ्जते न कदाचन।
रक्षन्तो वर्धयन्तश्च आसते निधिपालवत्।।
उमोवाच।
केचिद्धनवियुक्ताश्च भोगयुक्ता महेश्वर।
मानुषाः सम्प्रदृश्यन्ते तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
आनृशंस्यपरा ये तु धर्मकामाश्चि दुर्गताः।
परोपकारं कुर्वन्ति दीनानुग्रहकारणात्।।
प्रतिपद्युः परधनं नष्टं वाऽन्यैर्नरैर्हृतम्।
नित्यं ये दातुमनसो नरा वित्तेष्वसत्स्वपि।।
कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः।
एते धनविहीनाश्च भोगयुक्ता भवन्त्युत।।
धर्मदानोपदेशं वा कर्तव्यमिति निश्चयः।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः।। 217 ।।