अनुशासनपर्व
अध्यायः २१६
महेश्वर उवाच।
पशवः पशुबन्धेषु ये हन्यन्तेऽध्वरेषु च।
यूपे निबध्य मन्त्रैश्च यथान्यायं यथाविधि।
मन्त्राहुतिविपूतास्ते स्वर्गं यान्ति यशस्विनि।।
तर्पिता यज्ञभागेषु तेषां मांसैर्वरानने।
अग्नयस्त्रिदशाश्चैव लोकपाला महेश्वराः।
तेषु तुष्टेषु जायेत यस्य यज्ञस्य यत्फलम्।
तेन संयुज्यते देवि यजमानो न संशयः।।
सपत्नीकः सपुत्रश्चि पित्रा च भ्रातृभिः सह।
ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते।।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
भगवन्सर्वभूतेश शूलपाणे महाद्युते।
श्रोतुमिच्छाम्यहं वृत्तं सर्वेषां गृहमेधिनाम्।।
कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो।
प्रत्यायतिः कथं तेषां जीवनार्थमुदाहृतम्।।
वर्तमानाः कथं सर्वे प्राप्नुवन्त्युत्तमां गतिम्।
एतत्सर्वं समासेन वक्तुमर्हसि मानदः।।
महेश्वर उवाच।
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि।
प्रायशो लोकसद्वृत्तमिष्यते गृहवासिनाम्।।
तेषां संरक्षणार्थाय राजानः संस्कृता भुवि।
सर्वेषामथ मर्त्यानां वृत्तिं सामान्यतः शृणुः।।
विद्या वार्ता च सेवा च कारुत्वं नाट्यता तथा।
इत्यते जीवनार्थाय मर्त्यानां विहिताः प्रिये।।
अपि जन्मफलं तावन्मानुषाणां विशेषतः।
विहितं तत्स्ववृत्तेन तन्मे शृणु समाहिताः।।
कर्मक्षेत्रं हि मानुष्यं सुखदुःखयुताः परे।
सर्वेषां प्राणिनां तस्मान्मानुष्ये वृत्तिरिष्यते।।
विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते।
कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा।।
विद्यया स्फीयते ज्ञानं ज्ञानात्तत्वनिदर्शनम्।
दृष्टतत्वो विनीतात्मा सर्वार्थस्य च भाजनम्।।
शक्यं विद्याविनीतेन लोके संजीवनं शुभम्।।
आत्मानं विद्यया तस्मात्पूर्वं वृत्वा तु भाजनम्।
वश्येन्द्रियो जितक्रोधो भूतात्मानं तु भावयेत्।
भावयित्वा तदाऽऽत्मानं पूजनीयः सतामपि।।
कुलानुवृत्तं वृत्तं वा पूर्वमात्मा समाश्रयेत्।
इत्येतत्कुलवासाय दानकर्म यथा पुरा।।
यदि चेद्विद्यया चैव वृत्तिं काङ्क्षेदथात्मनः।
राजविद्यानुवादेऽपि लोकविद्यामथापि वा।
तीर्थतश्चापि गृह्णीयाच्छुश्रूषादिगुणैर्युतः।।
ग्रन्थतश्चार्थतश्चैव दृढं कुर्यात्प्रयत्नतः।
एवं विद्याफलं देवि प्राप्नुयान्नान्यथा नरः।
न्यायाद्विद्याफलानीच्छेदधर्मं तत्र वर्जयेत्।।
यदिच्छेद्वार्तया वृत्तिं काङ्क्षेत विधिपूर्वकम्।
क्षेत्रे जलोपपन्ने च तद्योग्यां कृषिमाचरेत्।।
वाणिज्यं वा यथाकालं कुर्यात्तद्देशयोगतः।
मूल्यमर्थं प्रयासं च विचार्यैव व्ययोदयौ।।
पशुसंजीवनं चैव दश गाः पोषयेद्ध्रुवम्।
बहुप्रकारा बहवः पशवस्तस्य साधकाः।।
यः कश्चित्सेवया वृत्तिं काङ्क्षेत मतिमान्नरः।
यतात्मा श्रवणीयानां भवेद्वै सम्प्रयोजकः।।
बुद्ध्या वा कर्मयोगाद्वा बोधनाद्वा समाश्रयेत्।
मार्गतस्तु समाश्रित्य तदा तत्सम्प्रयोजयेत्।।
यथायथा सु तुष्येत तथा संतोषयेत्तु तम्।
अनुजीविगुणोपेतः कुर्यादात्मार्थमाश्रितम्।।
विप्रियं नाचरेत्तस्य एषा सेवा समासतः।
विप्रयोगात्पुरा तेन गतिमन्यां न लक्षयेत्।।
कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु।
तयोरपि यथायोगं न्यायतः कर्मवेतनम्।।
आजीवेभ्योऽपि सर्वभ्यः स्वार्जवाद्वेतनं हरेत्।
अनार्जवादाहरतस्तत्तु पापाय कल्पते।।
सर्वेषां पूर्वमारम्भांश्चिन्तयेन्नयपूर्वकम्।
आत्मशक्तिमुपायांश्च देशकालौ च युक्तितः।
कारणानि प्रयासं च प्रक्षेपं च फलोदयम्।।
एवमादीनि सञ्चिन्त्य दृष्ट्वा दैवानुकूलताम्।
अतः परं समारम्भेद्यत्रात्महितमाहितम्।।
वृत्तिमेव समासाद्य तां सदा परिपालयेत्।
देवमानुषविघ्नेभ्यो न पुनर्मन्यते यथा।।
पालयन्वर्धयन्भुञ्जंस्तां प्राप्य न विनाशयेत्।
क्षीयते गिरिसङ्काशमश्नतो ह्यनपेक्षया।।
आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद्बुधः।
धर्मायार्थाय कामाय आपत्प्रशमनाय च।।
चतुर्ष्वपि विभागेषु विधानं शृणु शोभने।।
यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात्।
देवब्राह्मणपूजार्थं पितृपूजार्थमेव च।।
मूलार्थं सन्निवासार्थं क्रियानित्यैश्चि धार्मिकैः।
एवमादिषु चान्येषु धर्मार्थं संत्यजेद्धनम्।।
धर्मकार्ये धनं दद्यादनवेक्ष्य फलोदयम्।
ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात्।।
वार्तायां च समारम्भेऽमात्यमित्रपरिग्रहे।
आवाहे च विवाहे च पुत्राणां वृत्तिकारणात्।।
अर्थोदयसमावाप्तावनर्थस्य विघातने।
एवमादिषु चान्येषु अर्थार्थं विसृजेद्धनम्।।
अनुबन्धं हेतुयुक्तं दृष्ट्वा वित्तं परित्यजेत्।
अनर्थं बाधते ह्यर्थो अर्तं चैव फलान्युत।।
नाधनाः प्राप्नुन्त्यर्थं नरा यत्नशतैरपि।
तस्माद्धनं रक्षितव्यं दातव्यं च विधानतः।।
शरीरपोषणार्थाय आहारस्य विशोषणे।
नट*****धर्वसंयोगे कामयात्राविहारयोः।।
मनःप्रियाणां संयोगे प्रीतिदाने तथैव च।
एवमादिषु चान्येषु कामार्तं विसृजेद्धनम्।।
विचार्य गुणदोषांस्तु त्रयाणां तत्र संत्यजेत्।
चतुर्थं सन्निदध्याच्च आपदर्थं शुचिस्मिते।।
राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने।
महाव्याधिविमोक्षार्थं वार्धकस्यैव कारणात्।।
शत्रूणां प्रतिकाराय साहसैश्चाप्यमर्षणात्।
प्रस्थाने चान्यदेशार्थमापदां विप्रमोक्षणे।
एवमादि समुद्दिश्य सन्निदध्यात्स्वकं धनम्।।
सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम्।
यस्य नास्ति धनं किञ्चित्तस्य लोकद्वयं न च।।
अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते।
निधानमात्रं यस्तेषामन्यथा विलयं व्रजेत्।
एवं देवि मनुष्याणां लोकानां जीवनं प्रति।।
एवं लोकस्य वृत्तस्य लोकवृत्तं पुनः शृणु।
धन्यं यशस्यमायुष्यं स्वर्ग्यं च परमं यशः।।
त्रिवर्गो हि वशे युक्तः सर्वेषां संविधीयते।
तथा संवर्तमानास्तु लोकयोर्हितमाप्नुयुः।।
काल्योत्थानं च शौचं च देवब्राह्मणभक्तितः।
गुरुणामेव शुश्रूषा ब्राह्मणेष्वभिवादनम्।।
प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम्।
आभिमुख्यं पुरस्कृत्य अतिथीनां च पूजनम्।।
वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः।
पोषणं भूत्यवर्गस्य सान्त्वदानपरिग्रहे।।
न्यायतः कर्मकरणमन्यायाहितवर्जितम्।
सम्यग्वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम्।।
पुत्राणां विनयं कुर्यात्तत्तत्कार्यनियोजनम्।
वर्जनं चाशुभार्थानां शुभानां जोषणं तथा।।
कुलोचितानां धर्माणां यतावत्परिपालनम्।
कुलसन्धारणं चैव पौरुषेणैव सर्वशः।
एवमादि शुभं सर्वं तस्य वृत्तमिति स्थितम्।।
वृद्धसेवी भवेन्नित्यं हितार्थं ज्ञानकाङ्क्षया।
परार्थं नाहरेद्द्रव्यमनामन्त्र्य तु सर्वथा।
न याचेत परान्धीरः स्वबाहुबलमाश्रयेत्।।
स्वशरीरं सदा रक्षेदाहाराचारयोरपि।
हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया।।
देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि।
शेषं भुञ्जेच्छुचिर्भूत्वा न च भाषेत विप्रियम्।।
प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वतः।
गृहस्थवासी सततं तद्याद्गाश्चैव पोषयेत्।।
बहिर्निष्क्रमणं चैव कुर्यात्कारणतोपि वा।
मध्याह्ने वाऽर्धरात्रे वा गमनाय न रोचयेत्।।
विषयान्नावगाहेत स्वशक्त्या तु समाचरेत्।
यथाऽऽयव्ययता लोके गृहस्थानां प्रपूजितम्।।
अयशस्करमर्थघ्नं कर्म यत्परपीडनम्।
भयाद्वा यदि लोभाद्वा न कुर्वीत कदाचन।।
बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः।
आरभेत तदा कर्भ शुभं वा यदि वेतरत्।।
आत्मसाक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे।
मनसा कर्मणा वाचा न च काङ्क्षेत पातकम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः।। 216 ।।