अनुशासनपर्व

अध्यायः २१५

Anusasana Parva (Sanskrit) · Adhyaya 215
अक्षर का आकार

महेश्वर उवाच।

मृगयात्रां तु वक्ष्यामि शृणु तां धर्मिचारिणि।
मृगान्हत्वा महीपालो यथा पापैर्न लिप्यते।।

निर्मानुषामिमां सर्वे मृगा इच्छन्ति मेदिनीम्।
भक्षयन्ति च सस्यानि शासितव्या नृपेण ते।।

दुष्टानां शासनं धर्मः शिष्टानां परिपालनम्।
कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम्।
स्वर्गं मृगाश्च गच्छन्ति स्वयं नृपतिना हताः।।

यथा गावो ह्यगोपालास्तथा राष्ट्रमनायकम्।
तस्मादंशास्तु देवानां गन्धर्वोरगरक्षसाम्।
राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात्।।

अशिष्टशासने चैव शिष्टानां परिपालने।
तेषां चर्यां प्रवक्ष्यामि श्रूयतामनुपूर्वशः।।

यथा प्रचरतां तेषां पार्थिवानां यशस्विनाम्।
राष्ट्रं धर्मो धनं चैव यशः कीर्तिश्च वर्धते।।

नृपाणां पूर्वमेवायं धर्मो धर्मभृतांवर।
सभाप्रपातटाकानि देवतायतनानि च।
ब्राह्मणावसथाश्चैव कर्तव्या नृपसत्तमैः।।

ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः।
कुलमुत्सादयेयुस्ते क्रोधाविष्टा द्विजातयः।।

ध्मायमानो यता ह्यग्निर्निर्दहेत्सर्वमिन्धनम्।
तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीमिमाम्।
न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः।।

परिभूय द्विजान्मोहाद्वातापिनहुषादयः।
सबन्धुमित्रा नष्टास्ते दग्धा ब्राह्मणमन्युभिः।
शरीरं चापि शक्रस्य कृतं भगनिरन्तरम्।।

ततो देवगणाः सर्वे इन्द्रस्यार्थे महामुनिम्।
प्रसादं कारयामासुः प्रणासस्तुतिवन्दनैः।।

तेन प्रीतेन सुश्रोणि गौतमेन महात्मना।
तच्छरीरं तु शक्रस्य सहस्रभगचिह्नितम्।
कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम्।।

छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ।
इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषमागतौ।।

एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः।
अशक्तः शासितुं राज्यं किंपुनर्मानुषा भुवि।।

क्रोधाविष्टो दहेद्विप्रः शुष्केन्धनमिवानलः।
भस्मीकृत्य जगत्सर्वं सृजेदन्यज्जगत्पुनः।।

अदेवानपि देवान्स कुर्याद्देवानदेवताः।
तस्मान्नोत्पादयेन्मन्युं मन्युप्रहरणा द्विजाः।।

महत्स्वप्यपराधेषु शासनं नार्हति द्विजः।
न च शस्त्रनिपातानि न च प्राणैर्वियोजनम्।
दृश्यते त्रिषु लोकेषु ब्राह्ममानामनिन्दिते।।

क्रोधाश्च विपुला घोराः प्रसादाश्चाप्यनुत्तमाः।
तस्मान्नोत्पादयेत्क्रोधं नित्यं पूज्या द्विजातयः।।

दृश्यते न स लोकेऽस्मिन्भूते वाऽथ भविष्यति।
क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः।।

न चैवापहसेद्विप्रान्नि चैवोपालभेच्च तान्।
कालमासाद्य कुप्येच्च काले कुर्यादनुग्रहम्।।

सम्प्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः।
लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते।।

भृत्यानां सम्प्रहासेन पार्थिवः परिभूयते।
अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च।।

पूर्वमप्यर्पितैर्लोभैः परितोषं न यान्ति ते।
तस्माद्भृत्येषु नृपतिः सम्प्रहासं विवर्जयेत्।।

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
सगोत्रेषु विशेषेण सर्वोपायैर्न विश्वसेत्।।

विश्वासाद्भयमुत्पन्नं हन्याद्वृक्षमिवाशनिः।
प्रमादाद्धन्यते राजा लोभेन च वशीकृतः।
तस्मात्प्रमादं लोभं च न च कुर्यान्न विश्वसेत्।।

भयार्तानां भयत्राता दीनानुग्रहकारणात्।
कार्याकार्यविशेषज्ञो नित्यं राष्ट्रहिते रतः।।

सत्यसन्धः स्थितो राज्ये प्रजापालनतत्परः।
अलुब्धो न्यायवादी च षड्भागमुपजीवति।।

कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति।
स्वराष्ट्रेषु दयां कुर्यादकार्ये न प्रवर्तते।।

ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः।
शत्रुं च मित्रवत्पश्येदपराधविवर्जितम्।

अपराधानुरूपेण दुष्टं दण्डेन शासयेत्।
धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर्नृपः।
न धर्मो विद्यते तत्र यत्र राजा क्षमान्वितः।।

अशिष्टशासनं धर्मः शिष्टानां परिपालनम्।
वध्यांश्च घातयेद्यस्तु अवध्यानपरिरक्षति।।

अवध्या ब्राह्मणा गावो दूताश्चैव पिता तथा।
विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः।
स्त्रियश्चैव न हन्तव्या यच्च सर्वातिथिर्नरः।।

धरणीं गां हिरण्यं च सिद्धान्नं च तिलान्घृतम्।
ददन्नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात्।।

एवं चरति यो नित्यं राजा राष्ट्रहिते रतः।
तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश्च वर्धते।
न च पापैर्न चानर्थैर्युज्यते स नराधिपः।।

षड्भागमुपभुञ्जानः प्रजा राजा न रक्षति।
स्वचक्रपरचक्राभ्यां धर्मैर्वा विक्रमेण वा।।

निरुद्योगो नृपो यश्च परराष्ट्रनिघातने।
स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते।।

यत्पापं सकलं राजा हतराष्ट्रः प्रपद्यते।।
मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम्।

पितरं वर्जयित्वैकं हन्याद्धातकमागतम्।।

स्वस्य राष्ट्रस्य रक्षार्थं युद्यमानश्च यो हतः।
सङ्ग्रामे परचक्रेण श्रूयतां तस्य या गतिः।।

विमानेन वरारोहे अप्सरोगणसेवितः।
शक्रलोकमितो याति सङ्ग्रामे निहतो नृपः।।

यावन्तो रोमकूपाः स्युस्तस्य गात्रेषु सुन्दरि।
तावद्वर्षसहस्राणि शक्रलोके महीयते।।

यदि वै मानुषे लोके कदाचिदुपपद्यते।
राजा वा राजमात्रो वा भूयो भवति वीर्यवान्।।

तस्माद्यत्नेन कर्तव्यं स्वराष्ट्रपरिपालनम्।
व्यवहाराश्च चारश्च सततं सत्यसन्धता।।

अप्रमादः प्रमोदश्च व्यवसायेऽप्यचण्डता।
भरणं चैव भृत्यानां वाहनानां च पोषणम्।।

योधानां चैव सत्कारः कृते कर्मण्यमोघता।
श्रेय एव नरेन्द्राणामिह चैव परत्र च।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः।। 215 ।।