अनुशासनपर्व

अध्यायः २१२

Anusasana Parva (Sanskrit) · Adhyaya 212
अक्षर का आकार

उमोवाच।

देवदेव नमस्तुभ्यं त्र्यक्ष भो वृषभध्वज।
श्रुतं मे भगवन्सर्वं त्वत्प्रसादान्महेश्वर।।

सङ्गृहीतं मया तच्च तव वाक्यमनुत्तमम्।
इदानीमस्ति संदेहो मानुषेष्विह कश्चन।।

तुल्यप्राणशिरःकायो राजाऽयमिति मृश्यते।
केन कर्मविपाकेन सर्वप्राधान्यमर्हति।।

स चापि दण्डयन्मर्त्यान्भर्त्सयन्विधमन्नपि।
प्रेत्यभावे कथं लोकाँल्लभते पुण्यकर्मणा।
राजवृत्तमहं तस्माच्छ्रोतुमिच्छामि मानद।।

महेश्वर उवाच।

तदहं ते प्रवक्ष्यामि राजधर्मं शुभानने।।

राजायत्तं हि यत्सर्वं लोकवृत्तं शुभाशुभम्।
महतस्तपसो देवि फलं राज्यमिति स्मृतम्।।

तपोदानमयं राज्यं परं स्थानं विधीयते।
तस्माद्राज्ञः सदा मर्त्याः प्रणमन्ति यतस्ततः।।

न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि।
तस्मात्तस्यैव चरितं जगत्पथ्यं शृणु प्रिये।।

अराजके पुरा त्वासीत्प्रजानां सङ्कुलं महत्।
तदृष्ट्वा सङ्कुलं ब्रह्मा मनुं राज्ये न्यवेदयत्।
तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम्।।

तन्मे शृणु वरारोहे तस्य पथ्यं जगद्धितम्।
यथा प्रेत्य लभेत्स्वर्गं यथा वीर्यं यशस्तथा।।

पित्र्यं वा भूतपूर्वं वा स्वयमुत्पाद्य वा पुनः।
राज्यधर्ममनुष्ठाय विधिवद्भोक्तुमर्हति।।

आत्मानमेव प्रथमं विनयैरुपपादयेत्।
अनु भृत्यान्प्रजाः पश्चादित्येष विनयक्रमः।।

स्वामिनं चोषमां कृत्वा प्रजास्तद्वृत्तकाङ्क्षया।
स्वयं विनयसम्पन्ना भवन्तीह शुभेक्षणे।।

स्वस्मात्पूर्वतरा राजा विनयत्येव वै प्रजाः।
अपहास्यो भवेत्तादृक्स्वदोषस्यानवेक्षणात्।।

विद्याभ्यासैर्वृद्धयोगैरात्मानं विनयं नयेत्।
विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः।।

इन्द्रियाणां जयो देवि अत ऊर्ध्वमुदाहृतः।
अजये सुमहान्दोषो राजानं विनिपातयेत्।।

पञ्चैव स्ववशे कृत्वा तदर्थान्पञ्च शोषयेत्।
षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च।
सास्त्रचक्षुर्नयपरो भूत्वा भृत्यान्समाहरेत्।।

वृत्तश्रुतकुलोपेतानुपधाबिः परीक्षितान्।
अमात्यानुपधातीतान्सोपसर्पाञ्जितेन्द्रियान्।
योजयेत यथायोगं यथार्हं स्वेषु कर्मसु।।

अमात्या बुद्धिसम्पन्ना राष्ट्रं बहुजनप्रियम्।
दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः।।

अनुरक्तं बलं साम्नामद्वैधं मन्त्रमेव च।
एताः प्रकृतयः स्वेषु स्वामी विनयतत्ववित्।

प्रजानां रक्षणार्थाय सर्वमेतद्विनिर्मितम्।
आभिः करणभूताभिः कुर्याल्लोकहितं नृपः।।

आत्मरक्षा नरेन्द्रस्य प्रजारक्षार्थमिष्यते।
तस्मात्सततमात्मानं संरक्षेदप्रमादवान्।।

भोजनाच्छादनस्नानाद्बहिर्निष्क्रमणादपि।
नित्यं स्त्रीगणसंयोगाद्रक्षेदात्मानमात्मवान्।।

स्वेभ्यश्चैव परेभ्यश्च शश्त्रादपि विषादपि।
सततं पुत्रदारेभ्यो रक्षेदात्मानमात्मवान्।।

सर्वेभ्य एव स्थानेभ्यो रक्षेदात्मानमात्मवान्।
प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत्।।

प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम्।
प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजाहितम्।
प्रजार्तं तस्य सर्वस्वमात्मार्थं न विधीयते।

प्रकृतीनां हि रक्षार्थं रागद्वेषौ व्युदस्य च।
उभयोः पक्षयोर्वादं श्रुत्वा चैव यथातथम्।
तमर्थं विमृशेद्बुद्ध्या स्वयमातत्वदर्शनात्।।

तत्वविद्भिश्च बहुभिर्वृद्धैः सह नरोत्तमैः।
कर्तारमपराधं च देशकालौ नयानयौ।।

ज्ञात्वा सम्यग्यथाशास्त्रं ततो दण्डं नयेन्नृषु।
एवं कुर्वंल्लभेद्धर्मं पक्षपातविवर्जनात्।।

प्रत्यक्षाप्तोपदेशाभ्यामनुमानेन वा पुनः।
बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम्।।

चारैः कर्मप्रवृत्त्या च तद्विज्ञाय विचारयेत्।
अशुभं निर्हरेत्सद्यो जोषयेच्छुभमात्मनः।।

गर्ह्यान्विगर्हयेदेव पूज्यान्सम्पूजयेत्तथा।
दण्ड्यांश्च दण्डयेद्देवि नात्र कार्या विचारणा।।

पञ्चावेक्षन्सदा मन्त्रं कुर्याद्बुद्धियुतैर्नरैः।
कुलवृत्तश्रुतोपेतैर्नित्यं मन्त्रपरो भवेत्।।

कामकारेण वै मुख्यैर्न च मन्त्रमना भवेत्।
राजा राष्ट्रहितापेक्षं सत्यधर्माणि कारयेत्।।

सर्वोद्योगं स्वयं कुर्याद्दुर्गादिषु सदा नृषु।
देशवृद्धिकरान्भृत्यानप्रमादेन कारयेत्।।

देशक्षयकरान्सर्वानप्रियांश्च विवर्जयेत्।
अहन्यहनि सम्पश्येदनुजीविगणं स्वयम्।।

सुमुखः सुप्रियो दत्त्वा सम्यग्वृत्तं समाचरेत्।
अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति।।

असंविश्वास्य वचनं वक्तुं सत्सु न चार्हति।
नरेनरे गुणान्दोषान्सम्यग्वेदितुमर्हति।।

स्वेङ्गितं वृणुयाद्धैर्यं न कुर्यात्क्षुद्रसंविदम्।
परेङ्गितज्ञो लोकेषु भूत्वा संसर्गमाचरेत्।।

स्वतश्च परतश्चैव परस्परभयादपि।
अमानुषभयेभ्यश्च स्वाः प्रजाः पालयेन्नृपः।।

लुब्धाः कठोराश्चाप्यस्य मानवा दस्युवृत्तयः।
निग्राह्या एव ते राज्ञा सङ्गृहीत्वा यतस्ततः।।

कुमारान्विनयोद्बोधैर्जन्मप्रभृति योजयेत्।
तेषामात्मगुणोपेतं यौवराज्येन योजयेत्।।

प्रकृतीनां यथा न स्याद्राज्यभ्रंशो भवेद्भयम्।
एतत्संचिन्तयेन्नित्यं तद्विधानं तथार्हति।।

अराजकं क्षणमपि राज्यं न स्याद्धि शोभने।
आत्मनोऽनुविधानाय यौवराज्यं सदेष्यते।।

कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम्।
अन्येषां वृत्तियुक्तानां विशेषं कर्तुमर्हति।।

आत्मार्थं राज्यतन्त्रार्थं कोशार्थं च समाचरेत्।
दुर्गाद्राष्ट्रात्समुद्राच्च वणिग्भ्यः पुरुषात्ययात्।।

परात्मगुणसाराभ्यां भृत्यपोषणमाचरेत्।
वाहनानां प्रकुर्वीत पोषणं योधकर्मसु।।

सादरः सततं भूत्वा अवेक्षाव्रतमाचरेत्।
चतुर्दा विभजेत्कोशं धर्मभृत्यात्मकारणात्।।

आपदर्थं च नीतिज्ञो देशकालवशेन तु।
अनाथान्व्यथितान्वृद्धान्स्वे देशे पोषयेन्नृपः।।

सन्धिं च विग्रहं चैव तद्विशेषांस्तथा पारन्।
यथावत्संविमृश्यैव बुद्धिपूर्वं समाचरेत्।।

सर्वेषां सम्प्रियो भूत्वा मण्डलं सततं चरेत्।
शुभेष्वपि च कार्येषु च चैकान्तः समाचरेत्।।

स्वतश्च परतश्चैव व्यसनानि विमृश्य सः।
परेणि धार्मिकान्योगान्नातीयाद्द्वेषलोभतः।।

रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस्तु रक्षणम्।
कुनृपैः पीडितास्तस्मात्प्रजाः सर्वत्र पालयेत्।।

यात्राकालेऽनवेक्ष्यैव पश्चात्कोपफलोदयः।
तद्युक्ताश्चापदश्चैव शासनादिति चिन्तयेत्।।

व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोपि वा।
प्रायशो वर्जयेद्युद्धं प्राणरक्षणकारणात्।।

कारणादेवि योद्धव्यं नात्मनः परदोषतः।
सुयुद्धे प्राणमोक्षश्च तस्य धर्माय इष्यते।।

अभियुक्तो बलवता कुर्यादापद्विधिं नृपः।
अनुनीय तथा सर्वान्प्रजानां हितकारणात्।।

अन्यप्रकृतियुक्तानां राज्ञां वृत्तिविचारिणाम्।
अन्यांश्चापत्प्रपन्नानां न तान्संयोक्तुमर्हति।।

शुभाशुभं यदा देवि व्रतं तूभयसाधनम्।
आत्मैव तच्छुभं कुर्यादशुभं योजयेत्परान्।

एवमुद्देशतः प्रोक्तमलेपत्वं यथा भवेत्।
एष देवि समासेन राजधर्मः प्रकीर्तितः।।

एवं संवर्तमानस्तु दण्डयन्भर्त्सयन्प्रजाः।
निष्कल्मषमवाप्नोति पद्मपत्रमिवाम्भसा।।

एवं संवर्तमानस्य कालधर्मो यदा भवेत्।
स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते।।

द्विविधं राज्यवृत्तं च न्यायभाग्यसमन्वितम्।
एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे।।

राज्यं न्यायानुगं तात बुद्धिशास्त्रानुगं भवेत्।
धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत्।।

राज्यं भाग्यानुगं नाम अयथावत्प्रदृश्यते।
तत्तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत्।
अधर्म्यमयशस्यं च दुरन्तं च भवेद्ध्रुवम्।।

यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः।
तत्र भाग्यवशाद्भृत्या लभन्ते न विशेषतः।।

यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः।
यत्र सन्तोपि हन्यन्ते तत्र भाग्यानुगं भवेत्।।

शुभाशुभं यथा यत्र विपरीतं प्रदृश्यते।
राज्ञि चासुरपक्षे तु तत्र भाग्यानुगं भवेत्।।

भाग्यानुगे तु राजानो वर्तमाना यथातथा।
प्राप्याकीर्तिमनर्थं च इह लोके शुभेक्षणे।।

परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम्।
तिष्ठन्ति नरके देवि प्रलयान्तादिति स्थितिः।।

मोक्षं दुष्कृतिनां चापि विद्यते कालपर्ययात्।
नास्त्येव मोक्षणं देवि राज्ञां दुष्कृतिकारिणाम्।।

एतत्सर्वं समासेन राजवृत्तं शुभाशुभम्।
कथितं ते महाभागे भूयः श्रोतुं किमिच्छसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वादशाधिकद्विशततमोऽध्यायः।। 212 ।।