अनुशासनपर्व

अध्यायः २११

Anusasana Parva (Sanskrit) · Adhyaya 211
अक्षर का आकार

उमोवाच।

उक्तस्त्वया त्रिवर्गस्य धर्मश्च परमः शुभः।
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीतु मे।

महेश्वर उवाच।

ब्रह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना।
लोकांस्तारयितुं युक्ता मर्त्येषु क्षितिदेवताः।।

तेषु तावत्प्रवक्ष्यामि धर्मं शुभफलोदयम्।
ब्राह्मणेष्वभयो धर्मः परमः शुभलक्षणः।।

इमे च धर्मा लोकानां पूर्वं सृष्टाः स्वयंभुवा।
पृथिव्यां सद्द्विजैर्नित्यं कीर्त्यमानं निबोध मे।।

स्वदारनिरतिर्धर्मो नित्यं जप्यं तथैव च।
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्।।

शूद्रो धर्मपरो नित्यं शुश्रूषानिरतो भवेत्।।

त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः।
त्रिवर्गस्य व्यतिक्रान्तं तस्य धर्मः सनातनः।।

षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा।
धर्मिष्ठानि वरिष्ठानि तानितानि शृणूत्तमे।।

यजनं याजनं चैव दानं पात्रे प्रतिग्रहः।
अध्यापनमध्ययनं षट्कर्मा धर्मभागृजुः।।

नित्यः स्वाध्यायतो धर्मः नित्ययज्ञः सनातनः।
दानं प्रशंसते नित्यं ब्राह्मणेषु त्रिकर्मसु।।

अयमेव परो धर्मः संवृतः सत्सु विद्यते।
गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान्।।

पञ्चयज्ञविशुद्धात्मा ऋतुनित्योऽनसूयकः।
दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः।।

चक्षुःश्रोत्रमनोजिह्वास्निग्धवर्णप्रदः सदा।
अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः।।

पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा।
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः।।

प्रातरुत्थाय वै पश्चाद्भोजने तु निमन्त्रयेत्।
सत्कृत्याऽनुव्रजेद्यश्च तस्य धर्मः सनातनः।।

प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते।
तदहं कीर्तयिष्यामि त्रिवर्गेषु च यद्यथा।।

एकेनांशेन धर्मार्थः कर्तव्यो हितमिच्छता।
एकेनांशेन कामार्थमेकमंशं विवर्धयेत्।।

निवृत्तिलक्षणः पुण्यो धर्मो मोक्षो विधीयते।
तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता।।

सर्वभूतदया धर्मो निवृत्तेः परम सदा।
बुभुक्षितं पिपासार्तमतिथिं श्रान्तमागतम्।
अर्चयन्ति वरारोहे तेषामपि फलं महत्।।

पात्रमित्येव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति।।

काले सम्प्राप्तमतिथिं भोक्तुकाममुपस्थितम्।
यस्तं सम्भावयेत्तत्र व्यासोऽयं समुपस्थितः।।

तस्य पूजां यथाशक्त्या सौम्यचित्तः प्रयोजयेत्।
चित्तमूलो भवेद्धर्मो धर्ममूलं भवेद्यशः।।

तस्मात्सौम्येन चित्तेन दातव्यं देवि सर्वथा।
सौम्यचित्तस्तु यो दद्यात्तद्धि दानमनुत्तमम्।।

यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर्मेदिनीतले।
केदाराश्च तटाकानि सरांसि सरितस्तथा।।

तोयपूर्णानि दृश्यन्ते अप्रतर्क्योऽतिशोभने।
अल्पमल्पमपि ह्येकं दीयमानं विवर्धते।।

पीडयाऽपि च भृत्यानां दानमेव विशिष्यते।
पुत्रदारधनं धान्यं न मृताननुगच्छति।।

श्रेयो दानं च भोगश्च धनं प्राप्य यशस्विनि।
दानेन हि महाभागा भवन्ति मनुजाधिपाः।।

नास्ति भूमौ दानसमं नास्ति दानसमो निधिः।
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्।।

आश्रमे यस्तु तप्येत तपो मूलफलाशनः।
आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः।
मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत्।।

सम्यक्तपश्चरन्तीह श्रद्दधाना वनाश्रमे।
गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम्।।

उमोवाच।

गृहाश्रमस्य या चर्या व्रतानि नियमाश्च ये।
तथा च देवताः पूज्याः सततं गृहमेधिना।।

यद्यच्च परिहर्तव्यं गृहीणातिथिपर्वसु।
तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया विभो।।

महेश्वर उवाच।

गृहाश्रमस्य यन्मूलं फलं धर्मोऽयमुत्तमम्।
पादैश्चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः।।

सारभूतं वरारोहे दध्नो घृतमिवोद्धृतम्।
तदहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि।।

`दंपत्यलङ्करिष्णुश्च गृहदानरतिर्नरः।
कलत्रसौख्यं विन्देत नास्ति तत्र विचारणा।।

स्त्रियो वा पुरुषो वाऽपि दम्पतीन्पूजयन्ति ते।
मनोभिलषितान्कामान्प्राप्नुवन्ति न संशयः।।

शुश्रूषन्ते ये पितरं मातरं च गृहाश्रमे।
भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः।।

तेषुतेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः।
पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते।।

उमोवाच।

मातापितृवियुक्तानां का चर्या गृहमेधिनाम्।
विधवानां च नारीणां भवानेव ब्रवीतु मे।।

महेश्वर उवाच।

देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम्।
अहिंसा सर्वभूतानामलोभः सत्यसन्धता।।

ब्रह्मचर्यं शरण्यत्वाशौचं पूर्वाभिभाषणम्।
कृतज्ञत्वमपैशुन्यं सततं धर्मशीलता।।

दिने द्विरभिषेकं च पितृदैवतपूजनम्।
गवाह्निकप्रदानं च संविभागोऽतिथिष्वपि।।

दीपप्रतिश्रयं चैव दद्यात्पाद्यासनं तथा।
पञ्चमेऽहनि षष्ठे वा द्वादशेऽप्यष्टमेऽथवा।
तदुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत्।।

श्मश्रुकर्म शिरोभ्यङ्गमञ्जनं दन्तधावनम्।
नैतेष्वहस्तु कुर्वीत तेषु लक्ष्मीः प्रतिष्ठिता।।

व्रतोपवासनियमस्तपो दानं च शक्तितः।
भरणं भृत्यवर्गस्य दीनानामनुकम्पनम्।।

परदारान्निवृत्तिश्च स्वदारेषु रतिः सदा।
शरीरमेकं दंपत्योर्विधात्रा पूर्वनिर्मितम्।
तस्मात्स्वदारनिरतो ब्रह्मचारी विधीयते।।

शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च।
आर्जवे वर्तमानस्य सर्वभूतहितैषिणः।।

प्रियातिथेश्च क्षान्तस्य धर्मार्जितधनस्य च।
गृहाश्रमपदस्थस्य किमन्यैः कृत्यमाश्रमैः।।

यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः।
तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः।।

राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः।
व्यालग्रहाश्च डम्याश्च चोरा राजभटास्तथा।।

सविद्याः सर्वजीवज्ञाः सर्वे वै विचिकित्सकाः।
दूराध्वानं प्रपन्नाश्च क्षीणपथ्योदना नराः।
एते चान्ये च बहवस्तर्कयन्ति गृहाश्रमम्।।

मार्जारा मूषिकाः श्वानः सूकराश्च शुकास्तथा।
कपोतका कावटकाः सरीसृपनिषेवणाः।
अरण्यवासिनश्चान्ये सङ्घा ये मृगपक्षिणाम्।।

एवं बहुविधा देवि लोकेऽस्मिन्सचराचराः।
गृहे क्षेत्रे बिले चैव शतशोऽथ सहस्रशः।।

गृहस्थेन कृतं कर्म सर्वैस्तैरिह भुज्यते।
उपयुक्तं च यत्तेषां मतिमान्नानुशोचति।।

धर्म इत्येव सह्कल्प्य यस्तु तस्य फलं शृणु।
सर्वयज्ञप्रणीतस्य हयमेधेन यत्फलम्।
वर्षे स द्वादशे देवि फलेनैतेन युज्यते।।

आशापाशविमोक्षं च विधिधर्ममनुत्तमम्।
वृक्षमूलचरो नित्यं शून्यागारिनिवेशनमम्।।

नदीपुलिनशायी च नदीतीरमनुव्रजन्।
विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः।

आत्मन्येवात्मना भावं समायोज्येह तेन वै।
आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा।।

पवित्रनित्यो युक्तश्च तस्य धर्मःक सनातनः।
नैकत्र रमते सक्तो न चैकग्रामगोचरः।
युक्तोऽप्यटति यो युक्तो न चैकपुलिनाश्रयः।।

एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः।। 211 ।।