अनुशासनपर्व

अध्यायः २१३

Anusasana Parva (Sanskrit) · Adhyaya 213
अक्षर का आकार

उमोवाच।

देवदेव महादेव सर्वदेवनमस्कृत।
यानि धर्मरहस्यानि श्रोतुमिच्छामि तान्यहम्।।

महेश्वर उवाच।

रहस्यं श्रूयतां देवि मानुषाणां सुखावहम्।
नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले।।

उत्सर्गो रेतसस्तेषु न कार्यो धर्मकाङ्क्षिभिः।
एतेषु बीजं प्रक्षिप्तं न च रोहति वै प्रिये।।

यत्र वा तत्र वा बीजं धर्मार्थीं नोत्सृजेत्पुनः।
नरो बीजविनाशेन लिप्यते ब्रह्महत्यया।।

अहिंसा परमो धर्म अहिंसा परमं सुखम्।
अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम्।।

देवतातिथिशुश्रूषा सततं धर्मशीलता।
वेदाध्ययनयज्ञाश्च तपो दानं दमस्तथा।।

आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा।
अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम्।।

एतत्ते परमं गुह्यमाख्यातं परमार्चितम्।।

उमोवाच।

यद्यधर्मस्तु हिंसायां किमर्थममरोत्तम।
यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः।।

कथं च भगवन्भूयो हिंसमाना नराधिपाः।
स्वर्गं सुदुर्गमं यान्ति तदा स्म रिपुसूदन।।

यस्यैव गोसहस्राणि विंशतिः स्वादिकानि तु।
अहन्यहनि हन्यन्ते द्विजानां मांसकारणात्।।

समांसं तु स दत्त्वाऽन्नं रन्तिदेवो नराधिपः।
कथं स्वर्गमनुप्राप्तः परं कौतूहलं हि मे।।

किन्तु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम्।
मृयां वै विनिर्गत्य मृगान्हन्ति नराधिपाः।।

एतत्सर्वं विशेषेण विस्तरेण वृषध्वज।
श्रोतुमिच्छामि सर्वज्ञ तत्त्वमद्य ममोच्यताम्।।

ईश्वर उवाच।

बहुमान्यमिदं देवि नास्ति कश्चिदहिंसकः।
श्रूयतां कारणं चात्र यथाऽनेकविधं भवेत्।।

दृश्यते चापि लोकेऽस्मिन्न हि कश्चिदहिंसकः।
धरणीसंश्रिता देवि सुसूक्ष्मांश्चैव मध्यमान्।।

सञ्चरंश्चरणाभ्यां च हन्ति जीवाननेकशः।
अज्ञानाज्ज्ञानतो वाऽपि यो जीवः शयनासनात्।
उपाविशञ्शयानश्च हन्ति जीवाननेकशः।।

शिरोवस्त्रेषु ये जीवा नरणां स्वेदसम्भवाः।
तांश्च हिंसन्ति सततं दंशांश्च मशकानपि।।

जले जीवास्तथाऽऽकाशे पृथिवी जीवमालिनी।
एवं जीवाकुले लोके कोसौ स्याद्यस्त्वहिंसकः।।

स्थूलमध्यमसूक्ष्मैश्च स्वेदवारिमहीरुहैः।
दृश्यरूपैरदृश्यैश्च नानारूपैश्च भामिनि।।

जीवैस्ततमिदं सर्वमाकाशं पृथिवी तथा।
अन्योन्यं ते च हिंसन्ति दुर्बलान्बलवत्तराः।।

मत्स्या मत्स्यान्ग्रसन्तीह खगाश्चैव खगांस्तथा।
सरीसृपैश्च जीवन्ति कपोताद्या विहङ्गमाः।।

भूचराः खेचराश्चान्ये क्रव्यादा मांसगृद्धिनः।
समृद्धाः परमांसैस्तु भक्षेरंस्तेऽपि चापरैः।।

सत्वैः सत्वानि जीवन्ति शतशोथ सहस्रशः।
अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि।।

स्थूलकायस्य सत्वस्य खरस्य महिषस्य च।
जीवस्यैकस्य मांसेन पयसा रुधिरेण वा।
तृप्यन्ते बहवो जीवाः क्रव्यादा मांसजीविनः।।

एको जीवसहस्राणि सदा खादति मानवः।
अन्नाद्यस्य च भोगेन दान्यसंज्ञानि यानि तु।।

मांसधान्यैः सबीजैश्च भोजनं परिवर्जयेत्।।

त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तथाऽपि वा।
धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः।।

नाश्नाति यावतो जीवस्तावत्पुण्येन युज्यते।
आहारस्य वियोगेन शरीरं परितप्यते।।

तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु।
वशे तिष्ठन्ति सुश्रोणि नृपाणामिव किंकराः।।

निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः।
इन्द्रियाणां निरोधेन दानेन च दमेन च।
नरः सर्वमवाप्नोति मनसा यद्यधिच्छति।।

एवं मूलमर्हिसाया उपवासः प्रकीर्तितः।।

आहारं कुरुते यस्तु भूमिमाक्रमते च यः।
सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते।।

यथैवाहिंसको देवि तत्वतो ज्ञायते नरः।
तथा ते सम्प्रवक्ष्यामि श्रूयतां धर्मचारिणि।।

फलानि मूलपर्णानि भस्म वा योपि भक्षयेत्।
अलेख्यमिव निश्चेष्टं तं मन्येऽहमहिंसकम्।।

आरम्भा हिंसया युक्ता धूमेनाग्निरिवावृताः।
तस्माद्यस्तु निराहारस्तं मन्येऽहमहिंसकम्।।

यस्तु सर्वं समुत्सृज्य दीक्षित्वा नियतः शुचिः।
कृत्वा मण्डलमर्यादां सङ्कल्पं कुरुते नरः।।

यावज्जीवमनाशित्वा कालकाङ्क्षी दृढव्रतः।
ध्यानेन तपसा युक्तस्तं मन्येऽहमहिंसकम्।।

अन्यथा हि न पश्यामि नरो यः स्यादहिंसकः।
बहु चिन्त्यमिदं देवि नास्ति कश्चिदहिंसकः।।

यतो यतो महाभागे हिंसा स्यान्महती ततः।
निवृत्तो मधुमांसाभ्यां हिंसा त्वल्पतरा भवेत्।।

निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम्।
मनसा विनिवृत्तानां धर्मस्य निचयो महान्।।

मनःपूर्वागमा धर्मा अधर्माश्च न संशयः।
मनसा बध्यते चापि मुच्यते चापि मानवः।।

निगृहीते भवेत्स्वर्गो विसृष्टे नरको ध्रुवः।
घातकः शस्त्रमुद्यम्य मनसा चिन्तयेद्यदि।।

आयुःक्षयं गतेऽन्येषां मृते तु प्रहराम्यहम्।
इति यो घातको हन्यान्न स पापेन लिप्यते।।

विधिना निहताः पूर्वं निमित्तं स तु घातकः।
विधिर्हि बलवान्देवि दुस्त्यजं वै पुराकृतम्।।

जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः।
नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः।।

नानाविधविचित्राङ्गा नानाशौर्यपराक्रमाः।
नानाभूमिप्रदेशेषु नानाहारश्च जन्तवः।।

जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते।
सुखं वा यदि वा दुःखं यथापूर्वं कृतं तु वा।।

प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च।
नातिक्रान्तुं हि शक्यः स्यान्निदेशः पूर्वकर्मणः।।

अप्रमत्तः प्रमत्तेषु विधिर्जागर्ति जन्तुषु।
न हि तस्य प्रियः कश्चिन्न द्वेष्यो न च मध्यमः।।

समः सर्वेषु भूतेषु कालः कालं निरीक्षते।
गतायुषो ह्याक्षिपते जीवः सर्वस्य देहिनः।।

यथा येन च मर्तव्यं नान्यथा म्रियते हि सः।
दृश्यते न च लोकेऽस्मिन्भूतो भव्यो द्विधा पुनः।।

विज्ञानैर्विक्रमैर्वाऽपि नानामन्त्रौषधैरपि।
यो हि वञ्चयितुं शक्तो विधेस्तु नियतां गतिम्।।

एष तेऽभिहितो देवि जीवहिंसाविधिक्रमः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रयोदसाधिकद्विशततमोऽध्यायः।। 213 ।।