अनुशासनपर्व
अध्यायः २१०
उमोवाच।
भगवन्देवदेवेश तेषां कर्मफलं प्रभो।
श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद।।
महेश्वर उवाच।
वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये।।
अग्नियोगं व्रजन्ग्रीष्मे ततो द्वादशवार्षिकम्।
रुद्रलोकेऽभिजायेत विधिदृष्टेन कर्मणा।।
उपवासव्रतं कुर्वन्वर्षाकाले दृढव्रतः।
सोमलोकेऽभिजायेत नरो द्वादशवार्षिकम्।।
काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम्।
मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते।।
कुशशर्करसंयुक्ते स्थण्डिले संविशन्मुनिः।
यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश।।
वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम्।
वीरासनगतो यस्तु कण्टकाफलकाश्रितः।
गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम्।।
वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम्।
देवलोकेऽभिजायेत दिव्यभोगसमन्वितः।।
पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः।
इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश।
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम्।
नागलोकेऽभिजायेत संवत्सरगणान्बहून्।।
एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः।
स्थानेषु तत्र तिष्ठन्ति तत्तद्भोगसमन्विताः।।
तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः।
वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः।।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
एषां यथा वराणां तु धर्ममिच्छामि मानद।
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर।।
महेश्वर उवाच।
धर्मं यथा वराणां त्वं शृणु भामिनि तत्परा।।
व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः।
धृतिमन्तःक क्षमायुक्ताः सत्यव्रतपरायणाः।।
पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः।
वर्षैः शीतातपैश्चैव कुर्वन्तः परमं तपः।।
कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते।
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः।।
दिव्यभूषणसंयुक्ता विमानवरसंयुताः।
विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो।।
महेश्वर उवाच।
हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे।।
संवहन्तो धुरं दानैः शकटानां तु सर्वदा।
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया।।
तपोर्जनपरा धीरास्तपसा क्षीणकल्मषाः।
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः।।
तेनैव कालयोगेन त्रिदिवं यान्ति शोभने।
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम्।।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो।।
महेश्वर उवाच।
ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे।
तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा।
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः।।
अश्मकुट्टास्तथाऽन्ये च दन्तोलूखलिनस्तथा।
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे।।
कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमाश्रिताः।
पशुप्रचारनिरताः फेनपाश्च तथा परे।।
मृगवन्मृगचर्यायां सञ्चरन्ति तथा परे।
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च।।
केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम्।
सञ्चरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः।
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः।।
इन्द्रलोके तथा तेषां निर्मिता भोगसञ्चयाः।
अमरैः समतां यान्ति देववद्भोगसंयुताः।।
वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते।
एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि।।
उमोवाच।
भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान्।।
महेस्वर उवाच।
धर्मचर्यां तथा देवि वालखिल्यगतां शृणु।।
मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनाः।
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संश्रिताः।।
उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः।
भास्करस्येव किरणैः सहसा यान्ति नित्यदा।
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः।।
तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम्।
लोकोऽयं धार्यते देवि तेषामेव तपोबलात्।।
महात्मनां तु तपसा सत्येन च शुचिस्मिते।
क्षमया च महाभागे भूतानां संस्थितिं विदुः।।
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः।
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्।
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत्।।
पञ्चभूतार्थतत्वे च लोकसृष्टिविर्धनम्।
एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम्।।
तस्मादयं त्वृषिगणस्तपस्तप इति प्रिये।
धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये।।
अमरत्वं शिवत्वं च तपसा प्रापयेत्सदा।
एतत्ते कथितं सर्वं शृण्वन्त्यास्ते श्रुतं प्रिये।
प्रियार्थमृषिसङ्घस्य प्रजानां हितकाम्यया।।
नारद उवाच।
एवं ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः।
भूयः परतरं यत्तु तदाप्रभृति चक्रिरे।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः।। 210 ।।