अनुशासनपर्व
अध्यायः २०९
उमोवाच।
भगवन्देवदेवेश त्रिपुरान्तक शङ्कर।
अयं त्वृषिगणो देव तपस्तप इति प्रभो।।
तपसा कर्शितो नित्यं तपोऽर्जनपरायणः।
अस्य किंलक्षणो धर्मः कीदृशश्चागमस्तथा।
एतदिच्छाम्यहं श्रोतुं तन्मे वद वरप्रद।।
नारद उवाच।
एवं ब्रुवन्त्यां रुद्राण्यामृषयः साधुसाध्विति।
अब्रुवन्हृष्टमनसः सर्वे तद्गतमानसाः।।
शृण्वन्तीमृषिधर्मांस्तु ऋषयश्चाभ्यपूजयन्।।
ऋषय ऊचुः।
त्वत्प्रसादद्वयं देवि श्रोष्यामः परमं हितम्।
धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः।
इति सर्वे तदा देवीं वाचा समभिपूजयन्।।
महेश्वर उवाच।
न्यायतस्त्वं महाभागे श्रोतुकामा मनस्विनि।
हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते।।
वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः।
बहुशाखो बहुविधो ऋषिधर्मः सनातनः।।
प्रायशः सर्वभोगार्थमृषिभिः क्रियते तपः।
तथा सञ्चरतां तेषां देवि धर्मविधिं शृणु।।
भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च।
कलत्रकार्यं संस्थाप्य कारणात्संत्यजेद्गृहम्।।
अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः।
निर्दारो वा सदारो वा वनवासाय संव्रजेत्।।
देशाः परमपुण्या ये नदीवनसमन्विताः।
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः।।
तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद्यथागमम्।
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत्।।
काल्योत्थानं च शौचं च सर्वदेवप्रणामनम्।
सकृदालेपनं काये त्यक्तदोषोऽप्रमादिता।।
सायंप्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि।
काले शौचं च कार्यं च जटावल्कलधारणम्।।
सततं वनचर्या च समित्कुसुमकारणात्।
नीवाराग्रयणं काले शाकमूलोपचायनम्।।
सदायतनशौचं च तस्य धर्माय चेष्यते।
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा।।
पाद्यासनाभ्यां सम्पूज्य तथाऽऽहारनिमन्त्रणम्।
अग्राम्यपचनं काले पितृदेवार्चनं तथा।।
पश्चादतिथिसत्कारस्तस्य धर्मः सनातनः।
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः।।
प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा।
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः।।
दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम्।
एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम्।।
एवं वै यतमानस्य कालधर्मो यथा भवेत्।
तथैव सोऽभिजयति स्वर्गलोकं शुचिस्मिते।।
तत्र संविदिता भोगाः स्वर्गस्त्रीभिरनिन्दिते।
परिभ्रष्टो यथा स्वर्गाद्विशिष्टस्तु भवेन्नृषु।।
एवं धर्मस्तथा देवि सर्वेषां वनवासिनाम्।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
भगवन्देवदेवेश ऋषीणां चरितं शुभम्।
विशेषधर्मानिच्छामि श्रोतुं कौतूहलं हि मे।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता।।
वननित्यैर्वनरतैर्वानप्रस्थैर्महर्षिभिः।
वनं गुरुमिवालम्ब्य वस्तुव्यमिति निश्चयः।।
वीरशय्यामुपासद्भिर्वारस्थानोपसेविभिः।
व्रतोपवासैर्बहुलैर्ग्रीष्मे पञ्चतपैस्तथा।।
पञ्चयज्ञपरैर्नित्यं पौर्णमास्यापरायणैः।
मण्डूकशायैर्हेमन्ते शैवालाङ्कुरभोजनैः।।
चीरवल्कलसंवीतैर्मृगाजिनधरैस्तथा।
चातुर्मास्यपरैः कैश्चिद्देवधर्मपरायणैः।।
एवंविधैर्वनेवासैस्तप्यते सुमहत्तपः।
एवं कृत्वा शुभं कर्म पश्चाद्याति त्रिविष्टपम्।।
तत्रापि सुमहत्कालं संविहृत्यि यथासुखम्।
जायते मानुषे लोके दानभोगसमन्वितः।।
तपोविशेषसंयुक्ताः कथितास्ते शुचिस्मिते।।
उमोवाच।
भगवन्देवदेवेश तेषु ये दारसंयुताः।
कीदृशं चरितं तेषां तन्मे शंसितुमर्हसि।।
महेश्व उवाच।
य एकपत्नीधर्माणश्चरन्ति विपुलं तपः।
विंध्यपादेषु ये केचिद्ये च नैमिशवासिनः।।
पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः।
सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः।।
हिंसाद्रोहविमुक्ताश्च सर्वभूतानुकम्पिनः।
शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः।।
प्राणिष्वात्मोपमा नित्यमृतुकालाभिगामिनः।
स्वदारसहिता देवि चरन्ति व्रतमुत्तमम्।।
वसन्ति सुखमव्यग्राः पुत्रदारसमन्विताः।
तेषां परिच्छदारम्भाः कृतोपकरणानि च।।
गृहस्थवद्द्वितीयं ते यथायोगं प्रमाणतः।
पोषणार्थं स्वदाराणामग्निकार्यार्थमेव च।
गावश्च कर्षणं चैव सर्वमेतद्विधीयते।
एवं वनगतैर्देवि कर्तव्यं दारसङ्ग्रहैः।
ते स्वदारैः समायान्ति पुण्याँल्लोकान्द्दढव्रताः।।
पतिभिः सह ये दाराश्चरन्ति विपुलं तपः।
अव्यग्रभावादैकात्म्यात्ताश्च गच्छन्ति वै दिवम्।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः।। 209 ।।