अनुशासनपर्व

अध्यायः २०

Anusasana Parva (Sanskrit) · Adhyaya 20
अक्षर का आकार

`भीष्म उवाच।

युधिष्ठिर महाबाहो शृणु राजन्यथातथम्।
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम्।।

तथा च गरुडो राजन्सुपर्णश्च यथाऽभवत्।
यथा च भुजगान्हन्ति तथा मे ब्रुवतः शृणु।।

पुराऽहं तात रामेणि जामदग्न्येन धीमता।
कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः।।

तमहं तात दृष्टैव शस्त्रण्युत्सृज्य सर्वशः।
अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान्।।

तमहं कथान्ते वरदं सुपर्णस्य बलौजसी।
अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर।।

कद्रूश्च विनता चास्तां प्रजापतिसुते उभे।
ते तु धर्मेणोपयेमे मारीचः कश्यपः प्रभुः।।

प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः।।

तत्र कद्रूर्वरं वव्रे पुत्राणां दशतः शतम्।
तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम्।।

विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम।
कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ।।

स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः।
जनयामास तान्पुत्रां स्ताभ्यामासीद्यथा पुरा।।

कद्रूः प्रजज्ञे ह्यण्डानां तथैव दशतःशतम्।
अण्डे द्वे विनता चैव दर्शनीयतरे शुभे।।

तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः।
सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः।।

निस्सरन्ति तदाऽण्डेभ्यः कद्रूपुत्रा भुजङ्गमाः।
पञ्चवर्षशते काले दृष्ट्वाऽमोघबलौजसः।।

विनता तेषु जातेषु पन्नगेषु महात्मसु।
विपुत्रा पुत्रसंतापाद्दण्डमेकं बिभेद ह।।

किमनेन करिष्येऽहमिति वाक्यमभाषत।
नहि पञ्चशते काले पुरा पुत्रौ ददर्श सा।।

सापश्यदण्डान्निष्क्रान्तं विनापत्रं मनस्विनम्।
पूर्वकायोपसम्पन्नं वियुक्तमितरेण ह।।

दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम्।
पुत्रदुःखान्विताऽशोचत्स च पक्षी तथा गतः।।

अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा।
मातरं च पलाशी ह हतोऽहमिति चासकृत्।।

न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा।
आवां भवाय पुत्रौ ते श्वसनाद्बलवत्तरौ।।

ईर्ष्याक्रोधाभिभूतत्वाद्योहमेवं कृतस्त्वया।
तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि।।

पञ्चवर्षशतानि त्वं स्पर्धसे वै यया सह।
दासी तस्या भवित्रीति साश्रुपातमुवाच ह।।

एष चैव महाभागे बली बलवतांवरः।
मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि विंशोऽध्यायः।। 20 ।।