अनुशासनपर्व
अध्यायः २०८
महेश्वर उवाच।
हन्त ते कथयिष्यामि यत्ते देवि मनःप्रियम्।
शृणु तत्सर्वमखिलं धर्मं वर्णाश्रमाश्रितम्।।
ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चेति चतुर्विधम्।
ब्राह्मणा विहिताः पूर्वं लोकतन्त्रमभीप्सता।
कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै।।
यदीदमेकवर्णं स्याज्जगत्सर्वं विनश्यति।
सहैव देवि वर्णानि चत्वारि विहितान्यतः।।
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः।
बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात्ते बाहुगर्विताः।।
ऊरुभ्यामुद्गता वैश्यास्तस्माद्वार्तोपजीविनः।
शूद्राश्च पादतः सृष्टास्तस्मात्ते परिचाकाः।।
तेषां धर्मांश्च कर्माणि शृणु देवि समाहिता।
विप्राः कृता भूमिदेवा लोकानां धारणे कृताः।
ते कैश्चिन्नावमन्तव्या ब्राह्मणा हितमिच्छुभिः।।
यदि ते ब्राह्मणा न स्युर्दानयोगवहाः सदा।
उभयोर्लोकयोर्देवि स्थितिर्न स्यात्समासतः।।
लोकेषु दुर्लभं किंतु ब्राह्मणत्वमिति स्मृतम्।
अबुधो वा दरिद्रो वा पूजनीयः सदैव सः।।
ब्राह्मणान्योऽवमन्येत निन्देच्च क्रोधयेच्च वा।
प्रहरेत हरेद्वाऽपि धनं तेषां नराधमः।।
कारयेद्धीनकर्मणि कामलोभविमोहनात्।
स च मामवमन्येत मां क्रोधयति निन्दति।।
मामेव प्रहरेन्मूढो मद्धनस्यापहारकः।
मामेव प्रेषणं कृत्वा निदन्ते मूढचेतनः।।
स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः।
कर्मण्यध्यापनं चैव याजनं च प्रतिग्रहः।
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः।।
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः।
अनापदि च शूद्रान्नं वृषलीसङ्ग्रहस्तथा।।
तप एव सदा धर्मो ब्राह्मणस्य न संशयः।
स तु धर्मार्थमुत्पन्नः पूर्वं धात्रा तपोबलात्।।
तस्योपनयनं धर्मो नित्यं चोदकधारणम्।
शास्त्रस्य श्रवणं धर्मो देवव्रतनिषेवणम्।।
अग्निकार्यं परो धर्मो नित्ययज्ञोपवीतिता।
शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम्।
धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा।।
गृहस्थस्य परो धर्मो गृहस्थाश्रमिणस्तथा।
गृहसम्मार्जनं धर्म आलेपनविधिस्तथा।।
अतिथिप्रियता धर्मो धर्मस्त्रेताग्निधारणम्।
इष्टिर्वा पशुबन्धाश्च विधिपूर्वं परंतप।।
दम्पत्योः समशीलत्वं धर्मो वै गृहमेधिनाम्।
एवं द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम्।।
यस्तु क्षत्रगतो धर्मस्त्वया देवि प्रयोदितः।
तमहं ते प्रवक्ष्यामि शृणु देवि समाहिता।।
क्षत्रियास्तु ततो देवि द्विजानां पालने स्मृताः।
यदि निःक्षत्रियो लोको जगत्स्यादधरोत्तरम्।।
रक्षणात्क्षत्रियैरेव जगद्भवति शाश्वतम्।
तस्याप्यध्ययनं दानं यजनं धर्मतः स्मृतम्।।
दीनानां रक्षणं चैव पापनामनुशासनम्।
सतां सम्पोषणं चैव कर्मषण्मार्गजीवनम्।।
उत्साहः शस्त्रजीवित्वं तस्य धर्मः सनातनः।
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता।।
सम्यग्गुणयुतो धर्मो धर्मः पौरहितक्रिया।
व्यवहारस्थितिर्नित्यं गुणयुक्तो महीपतिः।।
आर्तवित्तप्रदो राजा धर्मं प्राप्नोत्यनुत्तमम्।
एवं तैर्विहितः पूर्वैर्धर्मः कर्मविधानतः।।
तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः।
अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते।।
यदि न स्युस्तथा वैश्या न भवेयुस्तथा परे।
तेषामध्ययनं दानं गजनं धर्म उच्यते।।
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा।
अग्निहोत्रपरिस्पन्दास्त्रयो वर्णा द्विजातयः।।
वाणिज्यं सत्पथे स्थानमातिथेयत्वमेव च।
विप्राणां स्वागतन्यायो वैश्यधर्मः सनातनः।।
तिलगन्धरसाश्चैव न विक्रेयाः कथञ्चन।
वणिक्पथमुपासद्भिर्वैश्यैर्वैश्यपथि स्थितैः।।
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्।
एवं ते विहिता देवि लोकयात्रा स्वयंभुवा।।
तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः।
शूद्राश्च यदि ते न स्युः कर्मकर्ता न विद्यते।।
त्रयः पूर्वे शूद्रमूलाः सर्वे कर्मकराः स्मृताः।
ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः।।
वार्ता च कारुकर्माणि शिल्यं नाट्यं तथैव च।
अहिंसकः शुभाचारो देवतद्विजवन्दकः।।
शूद्रो धर्मफलैरिष्टैः स्वधर्मेणोपपद्यते।
एवमादि तथाऽन्यच्च शूद्रधर्म इति स्मृतः।।
तेऽप्येवं विहिता लोके कर्मयोग्याः शुभानने।।
एवं चतुर्णां वर्णानां वर्णलोकाः परत्र च।
विहिताश्च तथा दृष्टा यथावद्धर्मचारिणि।।
एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम्।
कथितं श्रोतुकामायाः किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
भगवन्देवदेवेश नमस्ते वृषभध्वज।
श्रोतुमिच्छाम्यहं देव धर्ममाश्रमिणां विभो।।
महेश्वर उवाच।
तथाऽऽश्रमगतं धर्मं शृणु देवि समाहिता।
आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः।।
गृहस्थः प्रवरस्तेषां गार्हस्थ्यं धर्ममाश्रितः।
पञ्चयज्ञक्रियाशौचं दारतुष्टिरतन्द्रिता।।
ऋतुकालाभिगमनं दानयज्ञतपांसि च।
अविप्रवासस्तस्येष्टः स्वाध्यायश्वाग्निपूर्वकम्।।
अतिथीनामाभिमुख्यं शक्त्या चेष्टनिमन्त्रणम्।
अनुग्रहश्च सर्वेषां मनोवाक्कायकर्मभिः।।
एवमादि शुभं चान्यत्कुर्यात्तद्वृत्तिमान्गृही।
एवं सञ्चरतस्तस्य पुण्यलोका न संशयः।
तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः।।
गृहवासं समुत्सृकज्य निश्चित्यैकमनाः शुभैः।
वन्यैरेव तदाहारैः वर्तयेदिति च स्थितिः।।
भूमिशय्या जटाश्मश्रुचर्मवल्कलधारणम्।
देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम्।।
अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते।
ब्रह्मचर्यं क्षमा शौचं तस्य धर्मः सनातनः।
एवं स विगते प्राणे देवलोके महीयते।।
यतिधर्मास्तथा देवि गृहांस्त्यक्त्वा यतस्ततः।
आकिञ्चन्यमनारम्भः सर्वतः शौचमार्जवम्।।
सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम्।
सदा ध्यानपरत्वं च देहशुद्धिः क्षमा दया।
तत्वानुगतबुद्धित्वं तस्य धर्मविधिर्भवेत्।।
ब्रह्मचारी च यो देवि जन्मप्रभृति भिक्षितः।
ब्रह्मचर्यपरो भूत्वा साधयेद्गुरुमात्मनः।
सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत्।।
भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम्।
स्वाध्यायः सततं तस्य एष धर्मः सनातनः।।
तस्य चेष्टा तु गुर्वर्थमाप्राणान्तमिति स्थितिः।
गुरोरभावे तत्पुत्रे गुरुवद्वृत्तिमाचरेत्।।
एवं सोप्यमलाँल्लोकान्ब्राह्मणः प्रतिपद्यते।
एष ते कथितो देवि धर्मश्चाश्रमवासिनाम्।।
चतुर्णामाश्रमो युक्तो लोक इत्येव विद्यते।
कथितं ते समासेन किं भूयः श्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टोत्तरद्विशततमोऽध्यायः।। 208 ।।