अनुशासनपर्व
अध्यायः २०७
उमोवाच।
भगवन्सर्वभूतेश शूलपाणे वृषध्वज।
आवासेषु विचित्रेषु रम्येषु च शुभेशु च।।
सत्सु चान्येषु भूतेषु श्मशाने रमसे कथम्।
केशास्थिकलिले भीमे कपालशतसङ्कुले।।
सृगालगृध्रम्पूर्णे शवधूमसमाकुले।
चिताग्निविषमे घोरे गहने च भयानके।।
एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम्।
एष मे संशयो देव तन्मे शंसितुमर्हसि।।
महादेव उवाच।
हन्त ते कथयिष्यामि शृणु देवि समाहिता।
आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते।।
नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे।
एष मेऽभिनिवेशोऽभूत्तस्मिन्काले प्रजापतिः।।
आकुलः सुमहाघोरः प्रादुरासीत्समन्ततः।
सम्भूता भूतसृष्टिश्च घोरा लोकभयावहा।।
नानावर्णा विरूपाश्च तीक्ष्णदंष्ट्राः प्रहारिणः।
पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः।
इतश्चरन्ति निघ्नन्तः प्राणिनो भृशमेव च।।
एवं लोके प्राणिहीने क्षयं याते पितामहः।
चिन्तयंस्तत्प्रतीकारं मां च शक्तं हि निग्रहे।।
एवं ज्ञात्वा ततो ब्रह्मा तस्मिन्कर्मण्योजयत्।
तच्च प्राणिहितार्थं तु मयाऽप्यनुमतं प्रिये।।
तस्मात्संरक्षिता देवि भूतेभ्यः प्राणिनो भयात्।
अस्माच्छ्मशानान्मेध्यं तु नास्ति किञ्चिदनिन्दिते।
निःसम्पातान्मनुष्याणां तस्माच्छुचितमं स्मृतं।।
भूतसृष्टिं च तां चाहं श्मशाने संन्यवेशयम्।
तत्रस्थः सर्वभूतानां विनिहन्मि प्रिये भयम्।।
न च भूतगणेनाहं विना वसितुमुत्सहे।
तस्मान्मे सन्निवासाय श्मशाने रोचते मनः।।
मेध्यकामैर्द्विजैनित्यं मेध्यमित्यभिधीयते।
आचरद्भिर्व्रतं नित्यं मोक्षकामैश्च सेव्यते।।
स्थानं मे तत्र विहितं वीरस्थानमिति प्रिये।
कपालशतसम्पूर्णमभिरूपं भयानकम्।।
मध्याह्ने सन्ध्ययोस्तत्र नक्षत्रे रुद्रदेवते।
आयुष्कामैरशुद्धैर्वा न गन्तव्यमिति स्थितिः।।
मदन्येन न शक्यं हि निहन्तुं भूतजं भयम्।
तत्रस्थोऽहं प्रजाः सर्वाः पालयामि दिनेदिने।।
मन्नियोगाद्भूतसङ्घा न च घ्नन्तीह कञ्चन।
तांस्तु लोकहितार्ताय श्मशाने रमयान्महम्।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
भगवन्देवदेवेश त्रिनेत्र वृषभध्वज।
पिङ्गलं विकृतं भाति रूपं ते तु भयानकम्।।
भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम्।
व्याघ्रोदरत्वक्संवीतं कपिलश्मश्रुसंततम्।।
रौद्रं भयानकं घोरं शूलपट्टससंयुतम्।
किमर्थं त्वीदृशं रूपं तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदहं कथयिष्यामि शृणु तत्त्वं समाहिता।
द्विविधो लौकिको भावः शीतमुष्णमिति प्रिये।।
तयोर्हि ग्रसितं सर्वं सौम्याग्नेयमिदं जगत्।।
सौम्यत्वं सततं विष्णौ मय्याग्नेयं प्रतिष्ठितम्।
अनेन वपुषा नित्यं सर्वलोकान्बिभर्म्यहम्।।
रौद्राकृतिं विरूपाक्षं शूलपट्टससंयुतम्।
आग्नेयमिति मे रूपं देवि लोकहिते रतम्।।
यद्यहं विपरीतः स्यामेतत्त्यक्त्वा शुभानने।
तदैव सर्वलोकानां विपरीतं प्रवर्तते।।
तस्मान्मयेदं ध्रियते रूपं लोकहितैषिणा।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि।।
उमोवाच।
भगवन्देवदेवेश शूलपाणे वृषध्वज।
किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते।
श्रोतुमिच्छाम्यहं देव तन्मे शंसितुमर्हसि।।
महेश्वर उवाच।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्।
पुराऽहं कारणाद्देवि कोपयुक्तः शुचिस्मिते।
दक्षयज्ञवधार्याय भूतसङ्घैः समावृतः।।
तस्मिन्क्रतुवरे घोरे यज्ञभागनिमित्ततः।
देवा विभ्रंशितास्ते वै येषां भागः क्रतौ कृतः।।
सोमस्तत्र मया देवि कुपितेन भृशार्दितः।
पश्यंश्चानपराधी सन्पादङ्गुष्ठेन ताडितः।।
तथापि विकृतेनाहं सामपूर्वं प्रसादितः।
तन्मे चिन्तयतश्चासीत्पश्चात्तापः पुरा प्रिये।।
तदाप्रभृति सोमं वै शिरसा धारयाम्यम्।
एवं मे पापहानिस्तु भवेदिति मतिर्मम।
तदाप्रभृति वै सोमो मूर्ध्नि संदृश्यते सदा।।
नारद उवाच।
एवं ब्रुवति देवेशे विस्मिताः परमर्षयः।
वाग्भिः साञ्जलिमालाभिरभितुष्टुवुरीश्वरम्।।
ऋषय ऊचुः।
नमः शङ्कर सर्वेश नमः सर्वजगद्भुरो।
नमो देवादिदेवाय नमः शशिकलाधर।।
नमो घोरतराद्धोर नमो रुद्राय शङ्कर।
नमः शान्ततराच्छान्त नमश्चन्द्रस्य पालक।।
नमः सोमाय देवाय नमस्तुभ्यं चतुर्मुख।
नमो भूतपते शंभो जह्नुकन्याम्बुशेखर।।
नमस्त्रिशूलहस्ताय पन्नगाभरणाय च।
नमोस्तु विषमाक्षाय दक्षयज्ञप्रदाहक।।
नमोस्तु बहुनेत्राय लोकरक्षणतत्पर।
अहो देवस्य महात्म्यमहो देवस्य वै कृपा।
एवं धर्मपरत्वं च देवदेवस्य चार्हति।।
एवं ब्रुवत्सु मुनिषु वचो देव्यब्रवीद्धरम्।
सम्प्रीत्यर्थं मुनीनां सा क्षणज्ञा परमं हितम्।।
उमोवाच।
भगवन्देवदेवेश सर्वलोकनमस्कृत।
अस्यैव ऋषिसङ्घस्य मम च प्रियकाम्यया।।
वर्णाश्रमकृतं धर्मं वक्तुमर्हस्यशेषतः।
न तृप्तिरस्ति देवेश श्रवणीयं हि ते वचः।।
सधर्मचारिणी चेयं भक्ता चेयमिति प्रभो।
वक्तुमर्हसि देवेश लोकानां हितकाम्यया।
याथातथ्येन तत्सर्वं वक्तुमर्हसि शंकर।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्ताधिकद्विशततमोऽध्यायः।। 207 ।।