अनुशासनपर्व
अध्यायः २०४
श्रीभगवानुवाच।
भवतां दर्शनादेव प्रीतिरभ्यधिका मम।
भवन्तस्तु तपःसिद्धा भवन्तो दिव्यदर्शनाः।।
सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः।
गत्यागतिज्ञा लोकानां सर्वे निर्दूतकल्मषाः।।
तस्माद्भवद्भिर्यत्किंचिदृष्टं वाऽप्यथवा श्रुतम्।
आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे।।
युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः
तस्यादमृतसंकाशं वाङ्मधुश्रवणे स्पृहा।।
रागद्वेषवियुक्तानां सततं सत्यवादिनाम्।
श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत्।।
तत्संयोगं हितं मेऽस्तु न वृथा कर्तुमर्हथ।
भवतां दर्शनं तस्मात्सफलं तु भवेन्मम।।
तदहं सज्जनमुखान्निःसृतं जनसंसदि।
कथयिष्याम्यहं बुद्ध्या बुद्धिदीपकरं नृणाम्।।
तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति चापरे।
वात्सल्यविगताश्चान्ये प्रशंसन्ति पुरातनाः।।
एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः।
वाग्भिः साञ्जलिमालाभिरिदमूचुर्जनार्दनम्।।
अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम्।
त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः।।
एवं पूजयितुं चास्मान्न चैवार्हसि केशव।
त्वत्तस्त्वन्यं न पश्यामो यल्लोके ते न विद्यते।
दिवि वा भुवि वा किञ्चित्तत्सर्वं हि त्वया ततम्।।
न विद्महे वयं देव कथ्यमानं तवान्तिके।
एवमुक्तो हृषीकेशः सस्मितं चेदमब्रवीत्।।
अहं मानुषयोनिस्थः साम्प्रतं मुनिपुङ्गवाः।
तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः।
भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत्।।
भीष्म उवाच।
एवं संचोदिताः सर्वे केशवेन महात्मना।
ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम्।।
ततस्त्वृषिगणाः सर्वे नारदं देवदर्शनम्।
अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने।।
ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम्।
पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे।।
सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन्।।
भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ।
दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम्।।
अतस्त्वमविशेषेण हितार्थं सर्वमादितः।
प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति।।
तदा संयोजितः सर्वैर्ऋषिभिर्नारदस्तदा।
प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम्।
समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे।।
ततो नारायणसुहृन्नारदो वदतांवरः।
शङ्करस्योमया सार्धं संवादमनुभाषत।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुरधिकद्विशततमोऽध्यायः।। 204 ।।