अनुशासनपर्व
अध्यायः २०३
भीष्म उवाच।
अयं नारायणः श्रीमान्पुत्रार्थे व्रतकाङ्क्षया।
दीक्षितोऽभून्महाबाहुः पुरा द्वादशवार्षिकम्।।
दीक्षितं केशवं द्रष्टुमभिजग्मुर्महर्षयः।
सेवित्वा च महात्मानः प्रीयमाणं जनार्दनम्।।
नारदः पर्वतश्चैव कृष्णद्वैपायनस्तथा।
देवलः काश्यपश्चैव हस्तिकाश्यप एव च।
जमदग्निश्च राजेन्द्र धौम्यो वाल्मीकिरेव च।।
अपरेऽपि तपःसिद्धाः सत्यव्रतपरायणाः।
शिष्यैरनुगताः सर्वे ब्रह्मविद्भिरकल्मषैः।।
केशवस्तानभिगतान्प्रीत्या सम्परिगृह्य च।
तेषामतिथिसत्कारं पूजनार्थं कुलोचितम्।
देवकीतनयो हृष्टो देवतुल्यमकल्पयत्।।
उपविष्टेषु सर्वेषु विष्टरेषु तदाऽनघ।
विश्वस्तेष्व्नभितुष्टेषु केशवार्चनया पुनः।।
परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः।
विष्णोर्नारायणस्यैव प्रसादात्कथयामि ताः।।
तस्यैव व्रतचर्यायां मुनिभिर्विस्मितं पुरा।
यत्र गोवृषभाङ्कस्य प्रभावोऽभून्महात्मनः।।
यत्र देवी महादेवमपृच्छत्संशयान्पुरा।
कथयामास सर्वांस्तान्देव्याः प्रियचिकीर्षया।।
उमापत्योश्च संवादं शृणु तात मनोरमम्।
वर्णाश्रमाणां धर्मश्च तत्र तात समाहितः।।
ऋषिधर्मश्च निखिलो राजधर्मस्च पुष्कलः।
गृहस्थधर्मश्च शुभः कर्मपाकफलानि च।।
देवगुह्यं च विविधं दानधर्मविधिस्तथा।
विधानमत्र प्रोक्तं यद्यमस्य नियमस्य च।।
यमलोकविधानं च स्वर्गलोकगतिस्तथा।
प्राणमोक्षविधिश्चैव तीर्थचर्या च पुष्कला।।
मोक्षधर्मविधानं च साङ्ख्ययोगसमन्वितम्।
स्त्रीधर्मश्च स्वयं देव्या देवदेवाय भाषितः।।
एवमादि शुभं सर्वं तत्र तात समाहितम्।
रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते।।
धन्यं यशस्यमायुष्यं धर्म्यं च परमं हितम्।
पुष्टियोगमिमं दिव्यं कथ्यमानं मया शृणु।।
इतिहासमिमं दिव्यं पवित्रं परमं शुभम्।
सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता।।
भीष्म उवाच।
ततो नारायणो देवः संक्लिष्टो व्रतचर्यया।
वह्निर्विनिःसृतो वक्त्रात्कृष्णस्याद्भुतदर्शनः।।
अग्निना तेन महता निःसृतेन मुखाद्विभोः।
पश्यतामेव सर्वेषां दग्ध एव नगोत्तमः।।
मृगपक्षिगणाकीर्णः श्वापदैरपि सङ्कुलः।
वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः।।
पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा।
स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः।।
सिद्धचारणसङ्घैश्च प्रसन्नैरुपशोभितः।
मत्तवारणसंयुक्तो नानापक्षिगणैर्युतः।
तदद्भुतमचिन्त्यं च सर्वेषामभवद्भृशम्।।
तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास्तदा।
विस्तिताः परमायत्ताः साध्यसाकुललोचनाः।
न किञ्चिदब्रुवंस्तत्र शुभं वा यदि वेतरत्।।
ततो नारायणो देवो मुनिसङ्घे तु विस्मिते।
तान्समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः।।
किमर्थं मुनिसङ्घेऽस्मिन्विस्मयोऽयमनुत्तमः।
एतन्मे संशयं सर्वे याथातथ्येन नन्दिताः।
ऋषयो वक्तुमर्हन्ति निश्चयेनार्थकोविदाः।।
केशवस्य वचः श्रुत्वा तुष्टुवुर्मुनिपुङ्गवाः।
भवान्सृजति वै लोकान्भवान्संहरति प्रजाः।
भवाञ्शीतं भवानुष्णं भवान्सत्यं भवान्क्रतुः।।
भवानादिर्भवानन्तो भवतोऽन्यन्न विद्यते।
स्थावरं जङ्गमं सर्वं त्वमेव पुरुषोत्तम।।
त्वत्तः सर्वमिदं तात लोकचक्रं प्रवर्तते।
त्वमेवार्हसि तद्वक्तुं मुखादग्निविनिर्गमम्।।
एतन्नो विस्मयकरं बभूव मधुसूदन।
ततो विगतसंत्रासा भवाम पुरुषोत्तम।
यदिच्छेत्तत्र वक्तव्यं कुतोऽस्माकं नियोगतः।।
श्रीभगवानुवाच।
नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः।
तस्माल्लोकहितं गुह्यं श्रूयतां कथयामि वः।।
असुरः साम्प्रतं कश्चिदहितो लोकनाशनः।
मायास्त्रकुशलश्चैव बलदर्पसमन्वितः।।
बभूव स मया बद्धो लोकानां हितकाम्यया।
पुत्रेण मे वधो दृष्टस्तस्य वै मुनिपुङ्गवाः।।
तदर्थं पुत्रमेवाहं सिसृक्षुर्वनमागतः।
आत्मनः सदृशं पुत्रमहं जनयितुं व्रतैः।।
एवं व्रतपरीतस्य तपस्तीव्रतया मम।
अथात्मा मम देहस्थः सोग्निर्भूत्वा विनिःसृतः।।
विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम्।
ब्रह्मणा मन्मथोऽनङ्गः पुत्रत्वेन प्रकल्पितः।
अनुज्ञातश्च तेनैव पुनरायान्ममान्तिकम्।।
एवं मे वैष्णवं तेजो मम वक्त्राद्विनिःसृतम्।
तत्तेजसा निर्मथितः पुरतोऽयं गिरिः स्थितः।।
दृष्ट्वा दाहं गिरेस्तस्य सौम्यभावतया मम।
पुनः स दृष्टमात्रेण गिरिरासीद्यथा पुरा।।
एतद्गुह्यं यथातथ्यं कथितं वः समासतः।
भवन्तो व्यथिता येन विस्मिताश्च तपोधनाः।।
ऋषीणामेवमुक्त्वा तु तान्पुनः प्रत्यभाषत।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः।। 203 ।।