अनुशासनपर्व
अध्यायः २०५
नारद उवाच।
भगवंस्तीर्थयात्रार्थं तथैव चरता मया।
दिव्यमद्भुतसङ्काशं दृष्टं हैमवतं वनम्।।
नानावृक्षसमायुक्तं नानापक्षिगणैर्वृतम्।
नानरत्नगणाकीर्णं नानाभावसमन्वितम्।।
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम्।
दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन वासितम्।।
सिद्धचारणसंघातैर्भूतसङ्घैर्निषेवितम्।
वरिष्ठाप्सरसाकीर्णं नागगन्धर्वसङ्कुलम्।।
मृदङ्गमुरजोद्धुष्टं शङ्खवीणाभिनादितम्।
नृत्यद्भिर्भूतसङ्घैश्च सर्वतस्त्वभिशोभितम्।।
नानारूपैर्विरूपैश्च भीमरूपैर्भयानकैः।
सिंहव्याघ्रोरगमृगैर्बिडालवदनैस्तथा।।
स्वरोष्ट्रद्वीपिवदनैर्गजवक्त्रैस्तथैव च।
उलूकश्येनवदनैः काकगृध्रमुखैस्तथा।।
एवं बहुविधाकारैर्भूतसङ्घैर्भृशाकुलम्।
नानद्यमानं बहुधा हरपारिषदैर्भृशम्।।
घोररूपं सुदुर्दर्शं रक्षोगणशतैर्वृतम्।
समाजं तद्वने दृष्टं मया भूतपतेः पुरा।।
प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम्।
प्रथमे वर्षरात्रे तु मेघसङ्घनिनादितम्।।
नानाबर्हिणसंघुष्टं गजयूथसमाकुलम्।
षट्पदैरुपगीतं च प्रथमे मासि माधवे।।
उत्क्रोशत्क्रौञ्चकुररैः सारसैर्जीवजीवकैः।
मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम्।।
उत्तमावाससङ्काशं भीमरूपतरं ततः।
द्रष्टुं भवति धर्मस्य धर्मभागिजनस्य च।।
ये चोध्वरेतसः सिद्धास्तत्रतत्र समागताः।
मार्ताण्डरश्मिसञ्चारा विश्वेदेवगणास्तथा।।
तथा नागास्तथा दिव्या लोकपाला हुताशनाः।
वाताश्च सर्वे चायान्ति दिव्यपुष्पसमाकुलाः।।
किरन्तः सर्वपुष्पाणि किरन्तोऽद्भुतदर्शनाः।
ओषध्यः प्रज्वलन्त्यश्च द्योतयन्त्यो दिशो दश।।
विहगाश्च मुदा युक्ता नृत्यन्ति च नदन्ति च।
ततः समन्ततस्तत्र दिव्या दिव्यजनप्रियाः।।
तत्र देवो गिरितटे हेमधातुविभूषिते।
पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः।।
व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः।
व्यालयज्ञोपवीतश्च लोहितान्त्रविभूषितः।।
हरिश्मश्रुजटो भीमो भयकर्ताऽमरद्विषाम्।
भयहेतुरभक्तानां भक्तानामभयङ्करः।।
किन्नरैर्देवगन्धर्वैः स्तूयमानस्ततस्ततः।
ऋषिभिश्चाप्सरोभिश्च सर्वतश्चैव शोभितः।।
तत्र भूतपतेः स्थानं देवदानवसङ्कुलम्।
सर्वतेजोमयं भूम्ना लोकपालनिषेवितम्।।
महोरगसमाकीर्णं सर्वेषां रोमहर्षणम्।
भीमरूपमनिर्देश्यमप्रधृष्यतमं विभोः।।
तत्र भूतपतिं देवमासीनं शिखरोत्तमे।
ऋषयो भूतसङ्घाश्च प्रणम्य शिरसा हरम्।
गीर्भिः परमशुद्धाभिस्तुष्टुवुस्च मनोहरम्।।
विमुक्ताश्चैव पापेभ्यो बभूवुर्विगतज्वराः।
ऋषयो बालकिल्याश्च तथा विप्रर्षयश्च ये।।
अयोनिजा योनिजाश्च तपःसिद्धा महर्षयः।
ततस्तं देवदेवेशं भगवन्तमुपासते।
ततस्तस्मिन्क्षणे देवी भूतस्त्रीगणसंवृता।
हरतुल्याम्बरधरा समानव्रतचारिणी।।
काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम्।
पुष्पवृष्ट्याऽभिवर्षन्ती दिव्यगन्धसमावृता।।
सरिद्वराभिः सर्वाभिः पृष्ठतोऽनुगता वरा।
सेवितुं भगवत्पार्श्वमाजगाम शुचिस्मिता।।
आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम्।
मनःप्रियं चिकीर्षन्ती क्रीडार्थं शङ्करान्तिके।।
मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु।
अवेक्ष्य हृष्टा स्वगणान्स्मयन्ती पृष्ठतः स्थिता।।
देव्या चान्धीकृते देवे कश्मलं समपद्यत।
निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम्।।
निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम्।
विषण्णं भयवित्रस्तं जगदासीद्भयाकुलम्।।
हाहाकारमृषीणां च लोकानामभवत्तदा।
तमोभिभूते सम्भ्रान्ते लोके जीवनसंक्षये।।
तृतीयं चास्य सम्भूतं ललाटे नेत्रमायतम्।
द्वादशादित्यसङ्काशं लोकान्भासाऽवभासयत्।।
तत्रक तेनाग्निना तेन युगान्ताग्निनिभेन वै।
अदह्यत गिरिः सर्वो हिमवानग्रतः स्थितः।।
दह्यमाने गिरौ तस्मिन्मृगपक्षिसमाकुले।
सविद्याधरगन्धर्वे दिव्यौषधसमाकुले।।
ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना।
बभूव च जगत्सर्वं तथा विस्मयसंयुतम्।।
पश्यतामेव सर्वेषां देवदानवरक्षसाम्।
नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः।।
तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा।
पितुः सम्मानमिच्छन्ती पपात भुवि पादूयोः।।
तं दृष्ट्वा देवदेवेशो देव्या दुःखमनुत्तमम्।
हैमवत्याः प्रियार्थं च गिरिं पुनरवैक्षत।।
दृष्टमात्रे भगवता सौम्ययुक्तेन चेतसा।
क्षणेन हिमवाञ्शैलः प्रकृतिस्थोऽभवत्पुनः।।
हृष्टपुष्टविहङ्गैश्च प्रफुल्लद्रुमकाननः।
सिद्धचारणसङ्घैश्च प्रीतियुक्तैः समाकुलः।।
पितरं प्रकृतिस्थं च दृष्ट्वा हैमवती भृशम्।
अभवत्प्रीतिसंयुक्ता मुदितात्र पिनाकिनम्।।
देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम्।
हितार्तं सर्वलोकानां प्रजानां हितकाम्यया।
देवदेवं महादेवी बभाषेदं वचोऽर्थवत्।।
भगवन्देवदेवेश शूलपाणे महाद्युते।
विस्मयो मे महाञ्जातस्तस्मिन्नेत्राग्निसम्भवे।।
किमर्थं देवदेवेश ललाटेऽस्मिन्प्रकाशते।
अतिसूर्याग्निसङ्काशं तृतीयं नेत्रमायतम्।।
नेत्राग्निना तु महता निर्दग्धो हिमवानसौ।
पुनः संदृष्टमात्रस्तु प्रकृतिस्थः पिता मम।।
एष मे संशयो देव हृदि मे सम्प्रवर्तते।
देवदेव नमस्तुभ्यं तन्मे संसितुमर्हसि।।
नारद उवाच।
एवमुक्तस्तया देव्या प्रीयमाणोऽब्रवीद्भवः।
स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि।।
त्वदृते मां हि वै प्रष्टुं न शक्यं केन चेत्प्रिये।
प्रकाशं यदि वा गुह्यं प्रियार्थं प्रब्रवीम्यहम्।।
शृणु तत्सर्वमकिलमस्यां संसदि भामिनि।
सर्वेषामेव लोकानां कूटस्थं विद्धि मां प्रिये।।
मदधीनास्त्रयो लोका यथा विष्णौ तथा मयि।
स्रष्टा विष्णुरहं गोप्ता इत्येतद्विद्धि भामिनि।।
तस्माद्यदा मां स्पृशति शुभं वा यदि वेतरत्।
तथैवेदं जगत्सर्वं तत्तद्भवति शोभने।।
एतद्गुह्यमजानन्त्या त्वया बाल्यादनिन्दिते।
मन्नेत्रे पिहिते देवि क्रीडनार्थं दृढव्रते।।
तत्कृते नष्टचन्द्रार्कं जगदासीद्भयाकुलम्।
नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये।।
तृतीयं लोचनं सृष्टं लोकं संरक्षितुं मया।
कथितं संशयस्थानं निर्विशङ्का भव प्रिये।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चाधिकद्विशततमोऽध्यायः।। 205 ।।