अनुशासनपर्व
अध्यायः २०२
वैशम्पायन* उवाच।
अनुशास्य शुभैर्वाक्यैर्भीष्ममाह महामतिः।
प्रीत्या पुनः स शुश्रूषुर्वचनं यद्युधिष्ठिरः।।
जनमेजय उवाच।
पितामहो मे विप्रर्षे भीष्मं कालवशं गतम्।
किमपृच्छत्तदा राजा सर्वसामाजिकं हितम्।।
उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम्।
तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे।।
वैशम्पायन उवाच।
भूय एव महाराज शृणु धर्मसमुच्चयम्।
यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः।।
शरतल्पगतं भीष्मं सर्वपार्थिवसन्निधौ।
अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत।।
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः।
श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम्।।
परावरज्ञो भूतानां दयावान्सर्वजन्तुषु।
आगमैर्बहुभिः प्रीतो भवान्नः परमं कुले।।
त्वादृशो दुर्लभो लोके साम्प्रतं ज्ञानसंयुतः।
भवता गुरुणा चैव धन्याश्चैव वयं प्रभो।।
अयं स कालः सम्प्राप्तो दुर्लभैर्ज्ञातिबान्धवैः।
शास्ता तु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ।।
तस्माद्धर्मार्थसहितमायत्यां च हितोदयम्।
आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत।।
अयं नारायणः श्रीमन्सर्वपार्थिवसन्निधौ।
भवन्तं बहुमानाच्च प्रणयाच्चैव सेवते।।
अस्यैव तु समक्षं नः पार्तिवानां तथैव च।
इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम्।।
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ।
मत्प्रियार्थं हि कौरव्य स्नेहाद्भाषितुमर्हसि।।
वैशम्पायन उवाच।
तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः।
प्रविबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत्।।
शृणु राजन्पुरावृत्तिमितिहासं पुरातनम्।
एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम्।
धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः।। 202 ।।