अनुशासनपर्व

अध्यायः २०१

Anusasana Parva (Sanskrit) · Adhyaya 201
अक्षर का आकार

[युधिष्ठिर उवाच।

श्रुतं मे भवतस्तात सत्यव्रतपराक्रम।
दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः।।

इमांस्तु श्रोतुमिच्छामि ध्रमान्धर्मभृतांवर।
दानं कतिविधं देयं किं तस्य च फलं लभेत्।।

कथं केभ्यस्च धर्म्यं च दानं दातव्यमिष्यते।
कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः।।

भीष्म उवाच।

शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ।
यथा दानं प्रदातव्यं सर्ववर्णेषु भारत।।

धर्मादर्थाद्भयात्कामात्कारुण्यादिति भारत।
दानं पञ्चविधं ज्ञेयं कारणैर्यैर्निबोध तत्।।

इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्।
इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता।।

ददाति वा दास्यति वा मह्यं दत्तमनेन वा।
इत्यर्तिभ्यो निशम्यैव सर्वं दातव्यमर्थिने।।

नास्याहं न मदीयोऽयं पापं कुर्याद्विमानितः।
इति दद्याद्भयादेव दृढं मूढाय पण्डितः।।

प्रियो मे यं प्रियोऽस्याहमिति सम्प्रेक्ष्य बुद्धिमान्।
वयस्यायैवमक्लिष्टं दानं दद्यादतन्द्रितः।।

दीनश्च याचते चायमल्पेनापि हि तुष्यति।
इति दद्याद्दरिद्राय कारुण्यादिति सर्वथा।।

इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम्।
यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः।।]

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकाधिकद्विशततमोऽध्यायः।। 201 ।।