अनुशासनपर्व
अध्यायः २००
युधिष्ठिर उवाच।
दानेन वर्ततेत्याह तपसा चैव भारत।
तदेतन्मे मनोदुःशं व्यपोह त्वं पितामह।
किंस्वित्पृथिव्यां ह्येतन्मे भवाञ्शंसितुमर्हति।।
भीष्म उवाच।
शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः।
लोका ह्यसंशयं प्राप्ता दानपुण्यरतैर्नृपैः।।
सत्कृतश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्।
उपदिश्य तदा राजन्गतो लोकाननुत्तमान्।।
शिबिरोशीनरः प्राणान्प्रियस्य तनयस्य च।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः।।
प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम्।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते।।
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने।
अर्घ्यं प्रदाय विधिवल्लेभे लोकाननुत्तमान्।।
दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम्।
छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम्।।
भगवानम्बरीषश्च ब्राह्मणायामितौजसे।
प्रदाय सकलं राष्ट्रं सुरोलकमवाप्तवान्।।
सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः।
ब्राह्मणाय च गा दत्त्वा गतो लोकाननुत्तमान्।।
वृषादर्भिश्च राजर्षी रत्नानि विविधानि च।
रम्यांश्चावसथान्दत्त्वा द्विजेभ्यो दिवमागतः।।
निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने।
अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः।।
जामदग्न्यश्च विप्राय भूमिं दत्त्वा महायशाः।
रामोऽक्षयांस्तथा लोकाञ्जगाम मनसोऽधिकान्।।
अवर्षति च पर्जन्ये सर्वभूतानि देवराट्।
वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम्।।
रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु।
सगतो ह्यक्षयाँल्लोकान्यस्य लोके महद्यशः।।
कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने।
न्यासं यथावत्संन्यस्य जगामि सुमहायशः।।
करंधमस्य पौत्रस्तु मरुत्तोऽविक्षितः सुतः।
कन्यामाङ्गिरसे दत्त्वा दिवामाशु जगाम सः।।
ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतांवरः।
निधिं शङ्खमनुज्ञाप्य जगाम परमां गतिम्।।
राजा मित्रसहश्चैव वसिष्ठाय महात्मने।
मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः।।
मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने।
दण्डमुद्धृत्य धर्मेण गतो लोकाननुत्तमान्।।
सहस्रचित्यो राजर्षिः प्राणानिष्टान्महायशाः।
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान्।।
सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम्।
मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः।।
भक्ष्यभोज्यस्य च कृतान्राशयः पर्वतोपमान्।
शाण्डिल्याय पुरा दत्त्वा सुमन्युर्दिवमास्थितः।।
नाम्ना च द्युतिमान्नाम साल्वराजो महाद्युतिः।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान्।।
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्।
हिरण्यहस्ताय गतो लोकान्देवैरधिष्ठितान्।।
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः।
ऋश्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत।।
कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम्।
गतोऽक्षयानतो लोकान्राजर्षिश्च भगीरथः।।
दत्त्वा शतसहस्रं तु गवां राजा भगीरथः।
स वत्सानां कोहलाय गतो लोकाननुत्तमान्।।
एते चान्ये च बहवो दानेन तपसा च ह।
युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनःपुनः।।
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी।
गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः।।
शिष्टानां चरितं ह्येतत्कीर्तितं मे युधिष्ठिर।
दानयज्ञप्रजासर्गैरेते हि दिवमास्थिताः।।
दत्त्वा तु सततं तेऽस्तु कौरवाणां धुरन्धर।
दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी।।
यत्र ते नृपशार्दूल सन्देहो वै भविष्यति।
श्वः प्रभाते हि वक्ष्यामि सन्ध्या हि समुपस्थिता।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विशततमोऽध्यायः।। 200 ।।