अनुशासनपर्व
अध्यायः १९९
[युधिष्ठिर उवाच।
उक्तास्तु भवता भोज्यास्तथाऽभोज्याश्च सर्वशः।
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह।।
ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे।
नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे।।
भीष्म उवाच।
हन्त वक्ष्यामि ते राजन्ब्राह्मणानां महात्मनाम्।
प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः।।
घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः।
तिलप्रतिग्रहे चैव सममेतद्युधिष्ठिर।।
मांसप्रतिग्रहे चैव मधुनो लवणस्य च।
आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः।।
काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम्।
कृष्णायसं च विवृतं धारयन्मुच्यते द्विजः।।
एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम्।
एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे।
अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा।
इक्षुतैलपवित्राणां त्रिसन्ध्येऽप्सु निमज्जनम्।।
व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा।
यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम्।।
उपानहौ च च्छत्रं च प्रतिगृह्यौर्ध्वदेहिके।
जपेच्छतं समायुक्तस्तेन मुच्यते पाप्मना।।
क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा।
त्रीणि रात्राण्युपोषित्वा तेन पापाद्विमुच्यते।।
कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः।
अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः।।
न च सन्ध्यामुपासीत न च जाप्यं प्रवर्तयेत्।
न सङ्किरेत्तदन्नं च ततः पूयेत ब्राह्मणः।।
इत्यर्थमपराङ्णे तु पितॄणां श्राद्धमुच्यते।
यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः।।
मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते।
स त्रिवेलं समुन्मज्ज्य द्वादशाहेन शुध्यति।।
द्वादशाहे व्यतीते तु कृतशौचो विशेषतः।
ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना।।
मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत्।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम्।।
मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते।
सप्तत्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः।।
सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात्।।
यस्तु शूद्रैः समश्नीयाद्ब्राह्मणोऽप्येकभोजने।
अशौचं विधिवत्तस्य शौचमत्र विधीयते।।
यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने।
स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा।।
क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने।
आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना।।
शूद्रास्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान्।
क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम्।।
प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम्।
तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः।
रोचना विरजा रात्रिर्मङ्गलालम्भनानि च।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनद्विशततमोध्यायः।। 199 ।।