अनुशासनपर्व

अध्यायः १९८

Anusasana Parva (Sanskrit) · Adhyaya 198
अक्षर का आकार

युधिष्ठिर उवाच।

के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह।
तथा वैश्यस्य के भोज्याः के शूद्रस्य च भारत।।

भीष्म उवाच।

ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः।
वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः।।

ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह।
वर्जनीयास्तु वै शूद्राः सर्वभक्षा विकर्मिणः।।

वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च।
नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये।।

शूद्राणामथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम्।
मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च।।

शूद्राणां यस्तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम्।
पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः।।

शूद्रस्य कर्मनिष्ठायां विकर्मस्थोपि पच्यते।
ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते।।

स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम्।
रक्षणे क्षत्रियं प्राहुर्वैश्यं पुष्ट्यर्थमेव च।।

करोति कर्म यद्वैश्यस्तद्गत्वा ह्युपजीवति।
कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्मणि।।

शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च।
स विज्ञेयो यथा शूद्रो न च भोज्यः कदाचन।।

चिकित्सकः काण्डपृष्ठः पुराऽध्यक्षः पुरोहितः।
सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः।।

शूद्रकर्मस्वथैतेषु यो भुङ्क्ते निरपत्रपः।
अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम्।।

कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च।
स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः।।

भुङ्क्ते चिकित्सकस्यान्नं तदन्नं च पुरीषवत्।
पुंश्चल्यन्नं च मूत्रं स्यात्कारुकान्नं च शोणितम्।।

विद्योपजीविनोऽन्नं च यो भुङ्क्ते साधुसम्मतः।
तदप्यन्नं यथा शौद्रं तत्साधुः परिवर्जयेत्।।

वचनीयस्य यो भुङ्क्ते तमाहुः शोणितं ह्रदम्।
पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः।।

असत्कृतमवज्ञातं न भोक्तव्यं कदाचन।।

व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः।
नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत्।।

गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे।
भुक्त्वाऽन्नं जायते विप्रो रक्षसां कुलवर्धनः।।

न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि।
जायते शबरावासे मध्यदेशबहिष्कृते।।

अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि।
किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि।।]

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः।। 198 ।।