अनुशासनपर्व
अध्यायः १९५
[भीष्म उवाच।
ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः।
उवाच वचनं देवान्वासवं च शचीपतिम्।।
अयं महाबलो नागो रसातलचरो बली।
तेजस्वी रेणुको नाम महासत्वपराक्रमः।।
अतितेजस्विनः सर्वे महावीर्या महागजाः।
धारयन्ति महीं कृत्स्नां सशैलवनकाननाम्।।
भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान्।
धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै।।
पितामहवचःक श्रुत्वा ते देवा रेणुकं तदा।
प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः।।
रेणुक उवाच।
अनुज्ञातोऽस्मि देवैश्च पितृभिस्चक महाबलाः।
धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः।
कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम्।।
दिग्गजा ऊचुः।
कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा।
तेन नक्षत्रयोगेन यो ददाति गुडौदनम्।
इमं मन्त्रं जपच्छ्राद्धे यताहारो ह्यकोपनः।।
बलदेवप्रभृतयो ये नागा बलवत्तराः।
अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः।।
तेषां कुलोद्भवा ये च महाभूता भुजङ्गमाः।
ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये।।
यदा नारायणः श्रीमानुज्जहार वसुन्धराम्।
तद्बलं तस्य देवस्य धरामुद्धरतस्तथा।।
एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत्।।
गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम्।
निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे।।
एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः।
श्रमं तं नावबुध्यामो धारयन्तो वसुन्धराम्।।
एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः।।
एवं संवत्सरं कृत्वा दानं बहुफलं लभेत्।
वल्मीके बलिमादाय तन्नो बहुफलं मतम्।।
ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः।
कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः।।
दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा।
ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम्।।]
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः।। 195 ।।