अनुशासनपर्व

अध्यायः १९४

Anusasana Parva (Sanskrit) · Adhyaya 194
अक्षर का आकार

[भीष्म उवाच।

ततः सर्वे महाभागा देवाश्च पितरश्च ह।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन्।।

भवन्तो वै महाभागा अपरोक्षनिशाचराः।
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिसथ मानवान्।।

के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ।
रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ।
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः।।

प्रमथा ऊचुः।

मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे।
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत्।।

आमिषं शीर्षतो यस्य पादतो यश्च संविशेत्।
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः।।

उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति।
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः।।

एवं शीलसमाचारान्धर्षयामो हि मानवान्।
श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम्।

गोरोचनासमालम्भो वचाहस्तश्च यो भवेत्।
घृताक्षतं च यो दद्यान्मस्तके तत्परायणः।।

ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम्।
यस्य चाग्निर्गृहे नित्यं दिवारात्रौ च दीप्यते।।

तरक्षोश्चर्मदंष्ट्राश्च तथैव गिरिकच्छपः।
आज्यधूमो बिडालश्च च्छागः कृष्णोऽत पिङ्गलः।।

येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम्।
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः।।

लोकानस्मद्विधा ये च विचरन्ति यथासुखम्।
तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते।
एतद्वः कथितं सर्वं यत्र वः संशयो महान्।।]

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः।। 194 ।।