अनुशासनपर्व

अध्यायः १९६

Anusasana Parva (Sanskrit) · Adhyaya 196
अक्षर का आकार

[महेश्वर उवाच।

सारमुद्धृत्य युष्माभिः साधुधर्म उदाहृतः।
धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह।।

येषां धर्माश्रिता बुद्धिःक श्रद्दधानाश्च ये नराः।
तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः।।

निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम्।
एकभक्तं तथाऽश्नीयाच्छ्रूयतां तस्य यत्फलम्।।

इमा गावो महाभागाः पवित्रं परमं स्मृताः।
त्रीन्लोकान्धानयन्ति स्म सदेवासुरमानुपान्।।

तासु चैव महापुण्यं शुश्रूषा च महाफलम्।
अहन्यहनि धर्मेण युज्यते वै गवाह्निकः।।

मया ह्येता ह्यनुज्ञाताः पूर्वमासन्कृते युगे।
ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना।।

तस्माद्व्रजस्थानगतस्तिष्ठत्युपरि मे वृषः।
रमेऽहं सह गोभिश्च तस्मात्पूज्याः सदैव ताः।।

महाप्रभावा वरदा वरं दद्युरुपासिताः।
ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु युत्फलम्।।

तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम्।।]

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षण्णवत्यधिकशततमोऽध्यायः।। 196 ।।