अनुशासनपर्व

अध्यायः १९३

Anusasana Parva (Sanskrit) · Adhyaya 193
अक्षर का आकार

भीष्म उवाच।

ततस्त्वृषिगणाः सर्वे पितरश्च सदेवताः।
अरुन्धतीं तपोवृद्धामपृच्छन्त समाहिताः।।

समानशीलां वीर्येण वसिष्ठस्य महात्मनः।
त्वत्तो धर्मरहस्यानि श्रोतुमिच्छामहे वयम्।
यत्ते गुह्यतमं भद्रे तत्प्रभाषितुमर्हसि।।

अरुन्धत्युवाच।

तपोवृद्धिर्मया प्राप्ता भवतां स्मरणेन वै।
भवतां च प्रसादेन धर्मान्वक्ष्यामि शाश्वतान्।।

सगुह्यान्सरहस्यांश्च ताञ्शृणुद्वमशेषतः।
श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः।।

अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पग।
असम्भाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत्।।

अहन्यहनि यो दद्यात्कपिलां द्वादशीः समाः।
मासिमासि च सत्रेण यो यजेत सदा नरः।।

गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे।
न तद्धर्मफलं तुल्यमतिथिर्यस्य तुष्यति।।

श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः।
श्रद्दधानेन कर्तव्यः सरहस्यो महाफलः।।

कल्यमुत्थाय गोमध्ये गृह्य दर्भान्सहोदकान्।
निषिञ्चेत गवां शृङ्गे मस्तकेन च तज्जलम्।
प्रतीच्छेत निराहारस्तस्यि धर्मफलं शृणु।।

श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानिचित्।
सिद्धचारणजुष्टानि सेवितानि महर्षिभिः।
अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च।।

साधुसाध्विति चोद्दिष्टं दैवतैः पितृभिस्तथा।
भूतैश्चैव सुसंहृष्टैः पूजिता साऽप्यरुन्धती।।

पितामह उवाच।

अहो धर्मो महाभागे सरहस्य उदाहृतः।
वरं ददामि ते धन्ये तपस्ते वर्दतां सदा।।

यम उवाच।

रमणीया कथा दिव्या युष्मत्तो या मया श्रुता।
श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम्।।

रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः।
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छाता।।

न हि पुण्यं तथा पापं कृतं किञ्चिद्विनश्यति।
पर्वकाले च यत्किंचिदादित्यं चाधितिष्ठति।।

प्रेतलोकं गते मर्त्ये तत्तत्सर्वं विभावसुः।
प्रतिजानाति पुण्यात्मा तच्चि तत्रोपयुज्यते।।

किञ्चिद्धर्म प्रवक्ष्यामि चित्रगुप्तमतं शुभम्।
पानीयं चैव दीपं च दातव्यं सततं तथा।।

उपानहौ च च्छत्रं च कपिला च यथातथम्।
पुष्करे कपिला देया ब्राह्मणे वेदपारगे।।

अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत्।
अयं चैवापरो धर्मश्चित्रगुप्तेन भाषितः।।

फलमस्य पृथक्त्वेन श्रोतुमर्हन्ति सत्तमाः।
प्रलयं सर्वभूतैस्तु गन्तव्यं कालपर्ययात्।।

तत्र दुर्गमनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः।
दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम्।।

अन्धकारं तमो घोरं प्रविशन्त्यल्पबुद्धयः।
तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि सन्तरेत्।।

अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम्।
पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः।।

तत्र पुण्योदका नाम नदी तेषां विधीयते।
अक्षयं सलिलं तत्र शीतलं ह्यमृतोपमम्।।

स तत्र तोयं पिबति पीनीयं यः प्रयच्छति।
प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः।।

तमोन्धकारं नियतं दीपदो न प्रपश्यति।
प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः।
देवताश्चानुमन्यन्ते विमलाः सर्वतो दिशः।।

द्योततें च यथाऽऽदित्यः प्रेतलोकगतो नरः।
तस्माद्दीपः प्रदातव्यः पानीयं च विशेषतः।।

कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे।
पुष्करे च विशेषेण श्रूयतां तस्य यत्फलम्।।

गोशतं सवृषं तेन दत्तं भवति शाश्वतम्।
पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत्।
शोधयेत्कपिला ह्येका प्रदत्तं गोशतं यथा।।

तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे।
न तेषां विषमं किञ्चिन्न दुःखं न च कण्टकाः।।

उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे।
छत्रदाने सुखां छायां लभते परलोकगः।।

न हि दत्तस्य दानस्य नाशोऽस्तीह कदाचन।
चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः।।

उवाच देवताः सर्वाः पितॄंश्चैव महाद्युतिः।
श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः।।

श्रद्दधानाश्च ये मर्त्या ब्राह्मणेषु महात्मसु।
दानमेतत्प्रयच्छन्ति न तेषां विद्यते भयम्।।

धर्मदोषास्त्विमे पञ्च येषां नास्तीह निष्कृतिः।
असंभाष्या अनाचारा वर्जनीया नराधमाः।।

ब्रह्महा चैव गोघ्नश्च परदाररतश्च यः।
अश्रद्दधानश्च नरः स्त्रियं यश्चोपजीवति।।

प्रेतलोकगता ह्येते नरके पापकर्मिणः।
पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः।।

असम्भाष्याः पितॄणां च देवानां चैव पञ्च ते।
स्नातकानां च विप्राणां ये चान्ये च तपोधनाः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिनवत्यधिकशततमोऽध्यायः।। 193 ।।