अनुशासनपर्व

अध्यायः १९२

Anusasana Parva (Sanskrit) · Adhyaya 192
अक्षर का आकार

लोमश उवाच।

परदारेषु ये सक्ता अकृत्वा दारसङ्ग्रहम्।
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै।।

परदाररतिर्यश्च यश्च वन्ध्यामुपासते।
ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते।।

असम्भाष्या भवन्त्येते पितॄणां नात्र संशयः।
देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः।।

तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम्।
ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता।।

श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम्।
श्रद्दधानेन कर्तव्यं गुरुणां वचनं सदा।।

द्वादश्यां पौर्णमास्यां च मासिमासि घृताक्षतम्।
ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत।।

सोमश्च वर्धते तेन समुद्रश्च महोदधिः।
अश्वमेधचतुर्भागं फलं सृजति वासवः।।

दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः।
प्रीतश्च भगवान्सोम इष्टान्कामान्प्रयच्छति।।

श्रूयतां चापरो धर्मः सरहस्यो महाफलः।
इदं कलियुगं प्राप्य मनुष्याणां सुखावहः।।

कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा।
तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः।।

तिलोदकं च यो दद्यात्पितॄणां मधुना सह।
दीपकं कृसंर चैव श्रूयतां तस्य यत्फलम्।।

तिलपात्रे फलं प्राह भगवान्पाकशांसनः।
गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम्।।

अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम्।
तिलपात्रं सहैतेन समं मन्यन्ति देवताः।।

तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम्।
दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः।।

स्वर्गे च पितृलोके च पितृदेवाभिपूजितम्।
एवमेतन्मयोद्दिष्टपिदृष्टं पुरातनम्।।]

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विनवत्यधिकशततमोऽध्यायः।। 192 ।।