अनुशासनपर्व

अध्यायः १९१

Anusasana Parva (Sanskrit) · Adhyaya 191
अक्षर का आकार

[वायुरुवाच।

किञ्चिद्धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम्।
सरहस्याश्च ये दोषास्ताञ्शृणुध्वं समाहिताः।।

अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम्।
दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः।।

एतेन विधिना मर्त्यः श्रद्दधानः समाहितः।
चतुरो वार्षिकान्मासान्यो ददाति तिलोदकाम्।।

भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे।
पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम्।।

इदं चैवापरं गुह्यमप्रशस्तं निबोधत।
अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः।।

मन्यते धर्म एवेति च चाधर्मेणि लिप्यते।
अग्नयस्तस्य कुप्यन्ति शूद्रयोनिं स गच्छति।।

पितरश्च न तुष्यन्ति सहदेवैर्विशेषतः।
प्रायश्चित्तं तु यत्तत्र ब्रुवतस्तन्निबोध मे।
यत्कृत्वा तु नरः सम्यक्सुखी भवति विज्वरः।।

गवां मूत्रपुरीषेणि पयसा च घृतेन च।
अग्निकार्यं त्र्यहं कुर्यान्निराहारः समाहितः।।

ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः।
हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते।।

एष ह्यधर्मो धर्मश्च सरहस्यः प्रकीर्तितः।
मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावह।।]

।। इति श्रीमन्महाभारते अनुशासनपर्वणि<
दानधर्मपर्वणि एकनवत्यधिकशततमोऽध्यायः।। 191 ।।