अनुशासनपर्व
अध्यायः १९०
[विभावसुरुवाच।
सलिलस्याञ्जलिं पूर्णमक्षताश्च धृतोत्तराः।
सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान्।।
स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत्।
अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः।।
वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान्।
अपि ह्येकेन पत्रेण लिप्यते ब्रह्महत्यया।।
दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान्।
हिंसितश्चन्द्रमा**** पितरश्चोद्विजन्ति च।।
हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु।
कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते।।
श्रीरुवाच।
प्रकीर्णं भाजनं यत्र भिन्नभाण्डमथासनम्।
योषितश्चैव हन्यन्ते कश्मलोपहते गृहे।।
देवताः पितरश्चैव उत्सवे पर्वणीषु वा।
निराशाः प्रतिगच्छन्ति कश्मलोपहताद्गृहात्।।
अङ्गिरा उवाच।
यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके।
सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते।।
गार्ग्य उवाच।
आतीथ्यं सततं कुर्याद्दीपं दद्यात्प्रतिश्रये।
वर्जयानो दिवास्वापं न च मांसानि भक्षयेत्।।
गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत्।
एत श्रेष्ठतमो धर्मः सरहस्यो महाफलः।।
अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः।
न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः।।
इदं च परमं गुह्यं सरहस्यं निबोधत।
श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च।।
रजस्वला च या नारी श्वित्रिकाऽपुत्रिका च या।
एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः।
पितरश्च न तुष्यन्ति वर्षाण्यपि त्रयोदश।।
शुक्लवासाः शुचिर्भूत्वा ब्राह्मणान्स्वस्ति वाचयेत्।
कीर्तयेद्भारतं चैव तथा स्यादक्षयं हविः।।
धौम्य उवाच।
भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा।
अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः।।
भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः।
कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः।
वृक्षमूले ध्रुवं सत्वं तस्माद्वृक्षं न रोपयेत्।।
जमदग्निरुवाच।
यो यजेदश्वमेधेन वाजपेयशतेन ह।
अवाक्शिरा वा लम्बेत सत्रं वा स्फीतमाहरेत्।।
न यस्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत्।
तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता।।
शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये।
ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम्।।]
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
नवत्यधिकशततमोऽध्यायः।। 190 ।।