अनुशासनपर्व
अध्यायः १८७
युधिष्ठिर उवाच।
साम्नि चापि प्रदानेन च ज्यायः किं भवतो मतम्।
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते।।
भीष्म उवाच।
साम्ना प्रसाद्यते कश्चिद्दानेन च तथाऽपरः।
पौरुषीं प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत्।।
गुणांस्तु शृणु वैराजन्त्सान्त्वस्य पुरुषर्षभ।
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा।।
अत्राप्युदाहरन्तीममिदिहासं पुरातनम्।
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा।।
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने।
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता।।
सुबुद्धिः श्रुतिसम्पन्नो दृष्ट्वा तमतिभीषणम्।
सामैवास्मै प्रयुञ्जानो न मुमोह न विव्यधे।।
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम्।
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः।।
भीष्म उवाच।
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणिस्तं निरीक्ष्य सः।
अभीतवदथाव्यग्रः प्रश्नं प्रतिजगाद ह।।
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः।
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः।।
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि।
स्वदोषात्तु परित्यज्य तेनासि हरिणः कृशः।।
अवृत्त्या पीड्यमानोऽपि वृत्त्युपायान्विगर्हयन्।
महार्थान्ध्यायसे नूनं तेनासि हरिणः कृशः।।
परकार्याधिकारस्थाः सद्गुणैरधमा नराः।
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः।।
गुणवान्निर्गुणानन्यान्नूनं पश्यसि तत्कृतान्।
प्राज्ञैरपि विनीतात्मा तेनासि हरिणः कृशः।।
सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः।
जितं त्वां मन्यते साधो तेनासि हरिमः कृशः।।
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः।
मन्येऽनुध्यायसि जनांस्तेनासि हरिमः कृशः।।
प्राज्ञैरपुजितो नूनं प्राज्ञैरप्यभिनिन्दितः।
ह्रीमानमर्षी दुर्वृत्तस्तेनासि हरिणः कृशः।।
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन्।
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः।।
नूनमद्य सतां मध्ये तव वाक्यमनुत्तमम्।
न भाति कालेऽभिहितं तेनासि हरिणः कृशः।।
दृष्टपूर्वाञ्श्रुतपूर्वान्कुपितान्हृदयप्रियान्।
अनुनेतुं न शक्रोषि तेनासि हरिणः कृशः।।
नूनमासञ्जयित्वा त्वा कृत्ये कस्मिंश्चिदीप्सिते।
कच्चिदर्थयते नित्यं तेनासि हरिणः कृशः।।
परोक्षवादिभिर्मिथ्यादोषस्ते सम्प्रदर्शितः।
तज्ज्ञैर्न पूज्यसे व्यक्तं तेनासि हरिणः कृशः।।
नूनं त्वां सद्गुणापेक्षं पूजयानं सुहृत्प्रजाः।
मायावीति च जानन्ति तेनासि हरिणः कृशः।।
अन्तर्गतमभिप्रायंन न नूनं लज्जयेच्छसि।
विवक्तुं प्राप्य शैथिल्यात्तेनासि हरिणः कृशः।।
नानाबुद्धिरुचीँल्लोके मानुषान्नूनमिच्छसि।
ग्रहीतुं स्वैर्गुणैः सर्वांस्तेनासि हरिणः कृशः।।
असत्सु विनिविष्टेषु न गुणान्वदतः स्वयम्।
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः।।
धर्मवृत्तः श्रुतैर्हीनः पदं त्वं रजसान्वितः।
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः।।
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम्।
बन्धुवर्गो निगृह्णाति तेनासि हरिमः कृशः।।
इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः।
युवा सुललितः कामी तेनासि हरिणः कृशः।।
दुर्विनीतहतः पुत्रो जामाता वाऽप्रमार्जकः।
दारा वा प्रतिकूलास्ते तेनासि हरिमः कृशः।।
भ्रातरोऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः।
माता ज्योष्ठो गुरुर्वाऽपि तेनासि हरिमः कृशः।।
ब्राह्मणो वा हतो गौर्वा ब्रह्मस्वं वापहृतं पुरा।
देवस्यं वा हृतं काले तेनासि हरिणः कृशः।।
हृतदारोऽथ वृद्धो वा लोके द्विष्टोऽथवा नरैः।
अविज्ञानेन वा वृद्धस्तेनासि हरिणः कृशः।।
वार्धकार्थं धनं दृष्ट्वा स्वा श्रीर्वाऽपि परैर्हृता।
वृत्तिर्वा दुर्जनापेक्षा तेनासि हरिणः कृशः।।
सम्पत्कालेन ते धर्मः क्षीणस्तात सुहृद्बुवैः।
असंन्यासमतिस्तत्र तेनासि हरिणः कृशः।।
अविद्वान्भीरुरल्पार्थे विद्याविक्रमदानजम्।
यशः प्रार्थयसे नित्यं तेनासि हरिणः कृशः।।
चिरहाभिलषितं किञ्चित्फलमप्राप्तमेव ते।
कृतमन्यैरपहृतं तेनासि हरिणः कृशः।।
नूनमात्मगतं दोषमपश्यन्किंचिदात्मनि।
अकारणेऽभिशस्तो हि तेनासि हरिणः कृशः।।
सुहृदां दुःखमार्तानां न प्रमोक्ष्यसि हानिजम्।
अलमर्थगुणैर्हीनं तेनासि हरिणः कृशः।।
साधून्गृहस्थान्दृष्ट्वा च तथा साधून्वनेचरान्।
मुक्तांश्चावसथे सक्तांस्तेनासि हरिमः कृशः।।
धर्म्यमर्थ्यं च काम्यं च देशे च रहितं वचः।
न प्रसिद्ध्यति ते नूनं तेनासि हरिणः कृशः।।
दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः।
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः।।
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि।
सुहृदामुपरोधेन तेनासि हरिणः कृशः।।
पापान्विवर्धितान्दृष्ट्वा कल्याणांश्चावसीदतः।
ध्रुवं गर्हयसे नूनं तेनासि हरिणः कृशः।।
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत्।
सहायमकरोच्चैनं सम्पूज्यामुं मुमोच ह।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः।। 187 ।।