अनुशासनपर्व

अध्यायः १८८

Anusasana Parva (Sanskrit) · Adhyaya 188
अक्षर का आकार

*युधिष्ठिर उवाच।

जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम्।
श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह।।

दानानामुत्तमं यच्च देयं यच्च यथायथा।
मान्यान्पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि।।

वैशम्पायन उवाच।

एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना।
धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम्।।

भीष्म उवाच।

शृणुष्वावहितो राजन्धर्मगुह्यानि भारत।
यथाहि भगवान्व्यासः पुरा कथितवान्मयि।।

देवगुह्यमिदं राजन्यमेनाक्लिष्टकर्मणा।
नियमस्थेन युक्तेन तपसो महतः फलम्।।

येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा।
ऋषयः प्रमथाः श्रीश्च चित्रगुप्तो दिशां गजाः।।

ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः।
महादानफलं चैव सर्वयज्ञफलं तथा।।

यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ।
सदोषोऽदोषवांश्चेह तैर्गुणैः सह युज्यते।।

दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः

अर्घेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः।
त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम्।।

धर्मिव्याकरणं पुण्यं रहस्यश्रवणं महत्।
श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम्।।

पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि।
देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम्।।

ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः।
महायज्ञफलं चैव सर्वदानफलं तथा।।

ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति।
श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः।।

गवां फलं तीर्थफलं यज्ञानां चैव यत्फलम्।
एतत्फलमवाप्नोति यो नरोऽतिथिपूजकः।।

श्रोतारः श्रद्धधानाश्च येषां शुद्धं च मानसम्।
तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना।।

मुच्यते किल्बिषाच्चैव न स पापेन लिप्यते।
धर्मं च लभते नित्यं प्रेत्य लोकगतो नरः।।

कस्यचित्त्वथ कालस्य देवदूतो यदृच्छया।
स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम्।।

यो तौ कामगुणोपेतावश्विनौ भिषजां वरौ।
आज्ञयाऽहं तयोः प्राप्तः सनरान्पितृदैवतान्।।

कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम्।
केमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक्पृथक्।।

प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति।
उत्तरश्च स्मृतः कस्य एतदिच्छामि वेदितुम्।।

श्रद्दधानेन दूतेन भाषितं धर्मसंहितम्।
पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम्।।

पितर ऊचुः।

स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम।
गूढार्थः परमः प्रश्नो भवता समुदीरितः।।

श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत्।
पितरस्तस्य तं मासं तस्मिन्रेतसि शेरते।।

प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः।
पिण्डो ह्यधस्ताद्गच्छंस्तु अप आविश्य भावयेत्।।

पिण्डं तु मध्यमं तत्र पत्नीत्वेका समश्नुते।
पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि।
एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते।।

पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा।
प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति।।

देवदूत उवाच।

आनुपूर्व्येण पिण्डानां प्रविभागः पृथक्पृथक्।
पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया।।

एकः समुद्धृतः पिण्डो ह्यधस्तात्कस्य गच्छति।
कं वा प्रीणयते देवं कथं तारयते पितॄन्।।

मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि।
किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते।।

अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम्।
भवते का गतिस्तस्य कं वा समनुगच्छति।।

एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु या गतिः।
फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते।।

पितर ऊचुः।

सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः।
रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर।।

एतदेव प्रशंसन्ति देवाश्च मुनयस्तथा।
तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम्।
वर्जयित्वा महात्मानं चिरजीविनमुत्तमम्।।

पितृभक्तस्तु यो विप्रो वलब्धो महायशाः।
त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम्।।

देवदूतेन यः पृष्टः श्राद्धस्य विदिनिश्चयः।
गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम।।

अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत्।
शशी प्रीणयते देवान्पितॄंश्चैव महामते।।

भुङ्क्ते तु पत्नीं यं चैषामनुज्ञाता तु मध्यमम्।
पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः।।

हव्यवाहे तु यः पिण्डो दीयते तन्निबोध मे।
पितरस्तेन तृप्यन्ति प्रीताः कामान्दिशन्ति च।
एतत्ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः।।

ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति।
तस्मिन्नहनि मन्यन्ते परिहार्यं हि मैथुनम्।।

शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम।
ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा।।

तस्मात्स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः।
प्रजा विवर्दते चास्य चश्चैवं सम्प्रयच्छति।।

ततो विद्युत्प्रभो नाम ऋषिराह महातपाः।
आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते।।

स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत्।।

तिर्यग्योनिगतान्सत्वान्मर्त्या हिंसन्ति मोहिताः।
कीटान्पिपीलिकान्सर्पान्मेषान्समृगपक्षिणः।
किल्बिषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया।।

ततो देवगणाः सर्वे ऋषयश्च तपोधनाः।
पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम्।।

शक्र उवाच।

कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च।
एतानि मनसा ध्यात्वा अवगाहेत्ततो जलम्।
तथा मुच्यति पापेनि राहुणा चन्द्रमा यथा।।

त्र्यहं स्नातः स भवति निराहारश्च वर्तते।
स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति।।

ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम्।
अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो।।

घृष्टो वटकषायेणि अनुलिप्तः प्रियङ्गुणा।
क्षीरेण षष्टिकान्भुक्त्वा सर्वपापैः प्रमुच्यते।।

श्रूयतां चापरं गुह्यं रहस्यमृषिचिन्तितम्।
श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः।
रुद्रेण सह देवेश तन्निबोध शचीपते।।

पर्वतारोहणं कृत्वा एकपादो विभावसुम्।
निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः।
तपसा महता युक्त उपवासफलं लभेत्।।

रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति।
ग्रीष्मकालेऽथवा शीते एवं पापमपोहति।।

ततः पापात्प्रमुक्तस्य द्युतिर्भवति शाश्वती।
तेजसा सूर्यवद्दीप्तो भ्राजते सोमवत्पनः।।

मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः।
उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम्।।

धर्मगुह्यं तु भगवन्मानुषाणां सुखावहम्।
सरहस्याश्च ये दोषास्तान्यथावदुदीरथ।।

बृहस्पतिरुवाच।

प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये।
हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति।।

बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात्।
तेषां दोषान्प्रवक्ष्यामि तान्निबोध शचीपते।।

भानुमाननिलश्चैव हव्यवाहश्च वासव।
लोकानां मातरश्चैव गावः सृष्टाः स्वयंभुवा।।

लोकांस्तारयितुं शक्ता मर्त्येष्वेतेषु देवताः।
सर्वे भवन्तः शृणिवन्तु एकैकं धर्मनिश्चयम्।।

वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः।
स्त्रियः सर्वाश्च दुर्वृत्ताः प्रतिमेहन्ति या रविम्।।

अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा।
हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति।
अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः।।

क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः।
न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः।।

प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च।
एवमेतत्पुरा दृष्टं कुलवृद्धैर्द्विजातिभिः।।

तस्माद्वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः।
भूतिकामेनि मर्त्येन सत्यमेतद्ब्रवीमि ते।।

ततः सर्वा महाभाग देवताः समरुद्गणाः।
ऋषयश्च महाभागाः पृच्छन्ति स्म पितॄंस्ततः।।

पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम्।
अक्षयं च कथं दानं भवेच्चैवौर्ध्वदेहिकम्।।

आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा।
एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः।।

पितर ऊचुः।

न्यायतो वै महाभागाः संशयः समुदाहृतः।
श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम्।।

नीलषण्डप्रमोक्षेण अणावास्यां तिलोदकैः।
वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत्।।

अक्षयं निर्व्यलीकं च दानमेतन्महाफलम्।
अस्माकं परितोषश्च अक्षयः परिकीर्त्यते।।

श्रद्धधानाश्च ये मर्त्या आहरिष्यन्ति सन्ततिम्।
दुर्गात्ते तारयिष्यन्ति नरकात्प्रपितामहान्।।

पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः।
वृद्धगार्ग्यो महातेजास्तानेवं वाक्यमब्रवीत्।।

के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः।
वर्षासु दीपदानेन तथैव च तिलोदकैः।।

पितर ऊचुः।

नीलषण्डस्य लाङ्गूलं तोयमभ्युद्दरेद्यदि।
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः।।

यस्तु शृङ्गगतं पङ्क्तं कूलादुद्धृत्य तिष्ठति।
पितरस्तेन गच्छन्ति सोमलोकमसंशयम्।।

वर्षासु दीपदानेन शशीवच्छोभते नरः।
तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति।।

अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम्।
पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन।
कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत्।।

हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा।
कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत्।
श्रद्दधानस्तु यः कुर्यात्पितॄणामनृणो भवेत्।।

एवमेव समुद्दिष्टः श्राद्धकालक्रमस्तथा।
विधिः पात्रं फलं चैव यथावदनुकीर्तितम्।।]

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः।। 188 ।।