अनुशासनपर्व
अध्यायः १८६
*युधिष्ठिर उवाच।
यज्ज्ञेयं परमं कृत्यमनुष्ठेयं महात्मभिः।
सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात्।।
भीष्म उवाच।
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम्।
श्रोतव्यं च त्वया सम्यग्ज्ञातव्यं च विशाम्पते।।
पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः।
नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम्।।
नारदश्चाब्रवीदेनं ब्रह्मणोक्तं महात्मना।।
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम्।
अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसंयुतम्।
यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः।
स एव सर्वभूतात्मा नर इत्यभिधीयते।।
नराज्जातानि तत्वानि नाराणीति ततो विदुः।
तान्येव चायनं तस्य तेन नारायणः स्मृतः।।
नारायणाज्जगत्सर्वं सर्गकाले प्रजायते।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते।।
नारायणः परं ब्रह्म तत्वं नारायणः परः।
परादपि परश्चासौ तस्मान्नास्ति परात्परः।।
वासुदेवं तथा विष्णुमात्मानं च तथा विदुः।
संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः।।
आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा।।
तस्मात्त्वं गहनान्सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान्।
अनन्यचेता ध्यायस्व नारायणमजं विभुम्।।
मुहूर्तिमपि यो ध्यायेन्नारायणमतन्द्रितः।
सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः।।
नमो नारायणायेति यो वेद ब्रह्म शाश्वतम्।
अन्त्यकाले जपन्नेति तद्विष्णोः परमं पदम्।।
श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः।
आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा।।
लिप्यते न स पापेन नारायणपरायणः।
पुनाति सकलं लोकं सहस्रांशुरिवोदितः।।
ब्रह्मचारी गृहस्थोऽपि वानप्रस्थोऽथ भिक्षुकः।
केशवाराधनं हित्वा नैव याति परां गतिम्।।
जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः।
तद्भक्तवत्सलं देवं समराधय सुव्रत।।
नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम्।
स्वप्नोऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम्।।
किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम्।
तं दृष्ट्वा देवदेवेशं प्राणमत्सम्भ्रमान्वितः।।
अथ कालेन महता तथा प्रत्यक्षतां गतः।
संस्तुतः स्तुतिभिर्वेदैर्देवगन्धर्वकिन्नरैः।।
अथ तेनैव भगवानात्मलोकमधोक्षजः।
गतः सम्प्रजितः सर्वैः स योगिनिलयो हरिः।।
तस्मात्त्वमपि राजेन्द्र तद्भक्तस्तत्परायणः।
अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम्।।
अजरममरमेकं ध्येयमाद्यन्तशून्यं
सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम्।
निरुपममुपमेयं योगिविज्ञानगम्यं
त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम्।।
।। इती श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि ष॰शीत्यधिकशततमोऽध्यायः।। 186 ।।