अनुशासनपर्व
अध्यायः १८५
युधिष्ठिर उवाच।
स्त्रीणां हि समुदाचारं सर्वधर्मविदांवर।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम्।
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत।।
केन वृत्तेन कल्याणि समाचारेण केन वा।
विधूय सर्वपापानि देवलोकं त्वमागता।।
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा।
सुता ताराधिपस्येव प्रभया दिवमागता।।
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा।
विमानस्था शुभा भासि सहस्रगुणमोजसा।।
न त्वमल्पेन तपसा दानेन नियमेन वा।
इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदस्व मे।।
इति पृष्टा सुमनया मधुरं चारुहासिनी।
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत्।।
नाहं काषायवसना नापि वल्कलधारिणी।
न च मुण्डा च जटिला भूत्वा देवत्वमागता।।
अहितानि च वाक्यानि सर्वाणि परुषाणि च।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम्।।
देवतानां पितॄणां च ब्राह्मणानां च पूजने।
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी।।
पैशुन्ये न प्रवर्तामि न ममैतन्मनो गतम्।
अद्वारि न च तिष्ठामि चिरं न कथयामि च।।
असद्वा हसितं किञ्चिदहितं वाऽपि कर्मणा।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा।।
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्।
आसनेनोपसंयोज्य पूजयामि समाहिता।।
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति।
भक्ष्यं वा यदि वा लेह्यं तत्सर्वं वर्जयाम्यहम्।।
कुटुंबार्थे समानीतं यत्किञ्चित्कार्यमेव तु।
पुनरुत्थाय तत्सर्वं कारयामि करोमि च।।
अग्निसंरक्षणपरा गृहशुद्धिं च कारये।
कुमारान्पालये नित्यं कुमारीं परिशिक्षये।।
आत्मप्रियाणि हित्वाऽपि गर्भसंरक्षणे रता।
बालानां वर्जये नित्यं शापं कोपं प्रतापनम्।।
अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे।
रक्तवत्स्पृहये गेहे गावः सयवसोदकाः।
समुद्गम्य च शुद्धाऽहं भिक्षां दद्यां द्विजातिषु।।
प्रवासं यदि मे याति भर्ता कार्येण केनचित्।
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा।।
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्।
प्रसाधनं च निष्क्रान्ते नामिनन्दामि भर्तरि।।
नोत्थापयामि भर्तारं सुखं सुप्तमहं सदा।
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः।
नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम्।।
नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा।
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना।।
इमं धर्मपथं नारी पालयन्ती समाहिता।
अरुन्धतीव नारीणीस्वर्गलोके महीयते।।
भीष्म उवाच।
एतदाख्याय सा देवी सुमनायै तपस्विनी।
पतिधर्मं महाभागा जगामादर्शनं तदा।।
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि।
स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः।। 185 ।।