अनुशासनपर्व

अध्यायः १८४

Anusasana Parva (Sanskrit) · Adhyaya 184
अक्षर का आकार

भीष्म उवाच।

एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत।
दिष्ट्यैतत्त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी?

लोको ह्ययं गुणानेव भूयिष्ठं सम्प्रशंसति।
रूपमानो वयोमानो धनविद्यामदस्तथा।।

दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः।
तत्ते बहुगुणं दानं वर्तयिष्यामि तच्छृणु।।

यानीहागमशास्त्राणि याश्च काश्चित्प्रिवृत्तयः।
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्।

अहं दानं प्रशंसामि भवानपि तपःश्रुतेः।
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्।।

तपसा महदाप्नोति विद्यया चेति नः श्रुतम्।
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम्।।

यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः।
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः।।

दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्।
सर्वं वै तपसाऽभ्योति तपो हि बलवत्तरम्।।

सुरापः स्वर्णहारी च भ्रूणहा गुरुतल्पगः।
तपसा तरते सर्वमेनसश्च प्रमुच्यते।।

सर्वो वैद्यस्तु चक्षुष्मानपि यादृशतादृशः।
तपस्विनं तथैवाहुस्ताभ्यां कार्यं सतां मतम्।।

सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः।
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्।।

इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्।
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकम्।।

पूजिताः पूजयन्त्येते मानिता मानयन्ति च।
स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते।।

अकर्ता चैव कर्ता च लभते यस्य यादृशम्।
यदि चोर्ध्वं यद्यधो वा स्वान्लोकानभियास्यति।।

प्राप्स्यसि त्वन्नपानानि यानि दास्यसि कर्हिचित्।
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्।।

कौमारदारो व्रतवान्मैत्रेय निरतो भव।
[एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्।।

यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते।।

अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा।]
दानेन तपसा चैव विष्णोरभ्यर्चनेन च।
`ब्राह्मणः स महाभाग तरेत्संसारसागरात्।।

स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम्।
विद्यया गतमोहानां तारणाय हरिः स्मृतः।।

तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु।
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः।।

प्रणवोपासनपराः परमार्थिपरास्त्विह।
एतैः पावय चात्मानं सर्वपापमपोह्य च।।'

स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम्।
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति।।

तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम्।
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः।। 184 ।।