अनुशासनपर्व
अध्यायः १८३
भीष्म उवाच।
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूर्वकः।
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः।।
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्।
अनुज्ञातश्च भवता किञ्चिद्ब्रूयामहं विभो।।
व्यास उवाच।
यद्यदिच्छसि मैत्रेय यावद्यावद्यथायथा।
ब्रूहि तत्वं महाप्राज्ञ शुश्रुषे वचनं तव।।
मैत्रेय उवाच।
निर्दोषं निर्मलं चैव वचनं सत्यसंहितम्।
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः।।
भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम।
भूयो बुद्ध्याऽनुपश्यामि सुसमृद्धतपा इव।।
अपि मे दर्शनादेव भवतोऽभ्युदयो महान्।
मन्ये भवत्प्रसादोऽयं बुद्धिकर्मस्वभावतः।।
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम्।
त्रिभिर्गुणैः समुदितः स्नातो भवति वै द्विजः।।
अस्मिंस्तृप्ते च तृप्यन्ति पितरो दैवतानि च।
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते।।
`असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते।
शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः।।'
[अन्धं स्यात्तम एवेदं न प्रज्ञायेत किञ्चन।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते।।]
यथाहि सुकृते क्षेत्रे फलं विन्दति मानवः।
एवं दत्त्वा श्रुतवते फलं दाता समश्नुते।।
ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः।
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम्।।
अन्नं ह्यविद्वान्हन्त्येवमविद्वांसं च हन्ति तत्।
तच्चान्यं हन्ति यच्चान्यत्स भुक्त्वा हन्यतेऽबुधः।।
प्राहुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः।
स चान्नाज्जायते तस्मात्सूक्ष्म एष व्यतिक्रमः।।
`ब्राह्मं ह्यनुपयोगी यो ददंश्चान्नमसंशयम्।
यस्तारयति वै विद्वान्पितॄन्देवान्सदाऽमृतान्'
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः।।
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः।
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते।।
ये योनिशुद्धाः सततं तपस्यभिरता भृशम्।
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा।।
तैर्हि सद्भिः कृतः पन्था देवयानो न मुह्यते।
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः।। 183 ।।