अनुशासनपर्व

अध्यायः १८२

Anusasana Parva (Sanskrit) · Adhyaya 182
अक्षर का आकार

युधिष्ठिर उवाच।

विद्या तपश्च दानं च किमेतेषां विशिष्यते।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च।।

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्।
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले।।

तमुपच्छन्नमासीनं ज्ञात्वा स मुनिसत्तमः।
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम्।।

तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम्।
उत्तिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः।।

तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्।
कारणं ब्रूहि धर्मात्मन्व्यस्मयिष्ठाः कुतश्च ते।
तपस्विनो धृतिमतः प्रमोदः समुपागतः।।

एतदिच्छामि ते विद्वन्नभिवाद्य प्रणम्य च।
आत्मनश्च तपोभाग्यं सुखभाग्यं ममेह च।।

`तपोभाग्यान्महाभाग सुखभाग्यात्तथैव च।
पृथगाचरितं तात पृथगाचरितात्मनः।
अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात्।।

व्यास उवाच।

अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः।
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत्।।

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं प्रति।
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परान्वदेत्।।

इति वेदोक्तमृषिभिः पुरस्तात्परिकल्पितम्।
इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम्।।

अल्पोऽपि तादृशो न्यासो भवत्युत महाफलः।
तृषिताय च यद्दत्तं हृदयेनानसूयता।।

तोषितास्त्रिदशा यत्ते दत्त्वैतद्दर्शनं मम।
अजैषीर्महतो लोकान्महायज्ञैरिव प्रभो।।

ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च।
दूरात्पुण्यवतो गन्धः पुण्यस्यैव च दर्शनात्।।

पुण्यश्च वातिगन्धस्ते मन्ये कर्म विधानजम्।
अथ कर्मार्जितस्तात यथाचैवानुलेपनात्।।

शुभं सर्वपवित्रेब्यो दानमेव परं द्विज।
[नोचेत्सर्वपवित्रेभ्यो दानमेव परं भवेत्।।]

यानीमान्युत्तमानीह वेदोक्तानि प्रशंसति।
तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः।।

दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः।।

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः।
सर्वत्यागो यता चेह तता दानमनुत्तमम्।।

त्वं हि तात सुखादेव शुभमेष्यसि शोभनम्।
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः।।

तन्नः प्रत्यक्षमेवेदमुपलक्ष्यमसंशयम्।
श्रीमन्तः प्राप्नुवन्त्यर्थान्दानं यज्ञं तथा सुखम्।।

सुखादेव परं दुःखं दुःखादन्यत्परं सुखम्।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः।।

विविधानीह वृत्तानि नरस्याहुर्मनीषिणः।
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम्।।

न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पातकम्।
यथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्।।

यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः।
येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः।।

द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च।
ततोऽन्यत्कर्म यत्किंचिन्न पुण्यं न च पातकम्।।

`नित्यं चाकृपणो भुङ्क्ते स्वजनैर्देहि याचतः।
भाग्यक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः।।

रमस्वैधस्व मोदस्व देहि दाने रमस्व च।
न त्वामतिभविष्यन्ति वैद्या न च तपस्विनः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः।। 182 ।।