अनुशासनपर्व
अध्यायः १७९
युधिष्ठिर उवाच।
अकामाश्च सकामाश्च ये हताः स्म महामृधे।
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह।।
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे।
जानामि चाहं धर्मज्ञ प्राणत्यागं सुदुष्करम्।।
समृद्दे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे।
`संसारेऽस्मिन्सदाजाताः प्राणिनोऽभिरताःकथम्
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः।।
भीष्म उवाच।
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे।
संसारेऽस्मिन्समे जाताः प्राणिनः पृथिवीपते।।
निरता येन भावेन तत्र मे शृणु कारणम्।
सम्यक्चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिर।।
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप।
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर।।
ब्रह्मिभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा।
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि।।
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम्।
सर्वज्ञस्त्वरितं दृष्ट्वा कीटं वचनमब्रवीत्।।
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे।
क्व च वासस्तदाचक्ष्व कुतस्ते भयमागतम्।।
कीट उवाच।
शकटव्रजस्य महतो घोषं श्रुत्वा भयं मम।
आगतं वै महाबुद्धे स्वन एष हि दारुणः।।
श्रूयते तु स मा हन्यादिति ह्यस्मादपक्रमे।
श्वसतां च शृणोम्येनं गोवृषाणां प्रतोद्यताम्।।
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो।
नृणां च संवाहयतां श्रूयन्ते विविधाः स्वनाः।।
वोढुमस्मद्विधेनैव न शक्यः कीटयोनिना।
तस्मादतिक्रमाम्येष भयादस्मात्सुदारुणात्।।
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्।
अतो भीतः पलायामि गच्छेयं नापदं यथा।।
भीष्म उवाच।
इत्युक्तः स तु सं प्राह कुतः कीट सुखं तव।
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे।।
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून्।
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते।।
कीट उवाच।
सर्वत्र निरतो जीव इहापि च सुखं मम।
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्।।
इहापि विषयः सर्वो यथादेहं प्रवर्तितः।
मनुष्यास्तिर्यगाश्चैव पृथग्भोगा विशेषतः।।
अहमासं मनुष्यो वै शूद्रो बहुधनः प्रभो।
अब्रह्मण्यो नृशंसश्च कदर्यो बुद्धिजीवनः।।
वाक्श्लक्ष्णो ह्यकृतप्रज्ञो द्वेष्टा विश्वस्य कर्मणः।
मिथोगुप्तनिधिर्नित्यं परस्वहरणे रतः।।
भृत्यातिथिजनश्चापि गृहेऽपर्यशितो मया।
मात्सर्यात्स्वादुकामेन नृशंसेन बुभुक्षता।।
देवार्थं पितृयज्ञार्थं न च श्राद्धं कृतं मया।
न दत्तमन्नकामेषु दत्तमन्नं लुनामि च।।
गुप्तं शरणमाश्रित्य भयेषु शरणागतान्।
त्यक्त्वाऽकस्मान्निशायां च न दत्तमभयं मया।।
धनं धान्यं प्रियान्दारान्यानं वासस्तथाऽद्भुतम्।
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम्।।
ईर्ष्युः परसुखं दृष्ट्वा अन्यस्य न बुभूषकः।
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः।।
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया।
स्मृत्वा तदनुतप्येऽहं हित्वा प्रियमिवात्मजम्।।
शुभानां नाभिजानामि कृतानां कर्मणां फलम्।
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया।।
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः।
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः।।
कर्मणामेव चैवाहं सुखाशामिव लक्षये।
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः।। 179 ।।