अनुशासनपर्व

अध्यायः १७८

Anusasana Parva (Sanskrit) · Adhyaya 178
अक्षर का आकार

युधिष्ठिर उवाच।

इमे वै मानवा लोके भृशं मांसेषु गृद्धिनः।
विसृज्य विविधान्भक्ष्यान्महारक्षोगणा इव।।

अपूपान्विविधाकाराञ्शाकानि विविधानि च।
पादपान्रससंयुक्तान्न चेच्छन्ति यथाऽऽमिषम्।।

तत्र मे बुद्धिरत्रेव विषये परिमुह्यते।
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीति किञ्चन।।

तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणे प्रभो।
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ।।

सर्वसत्त्वेन धर्मज्ञ यथावदिह धर्मतः।
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे।।

यथैतद्यादृशं चैव गुणा ये चास्य वर्जने।
दोषा भक्षयतो येऽपि तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

सर्वमेतन्महाबाहो यथा वदसि भारत।
न मांसात्परमं किञ्चिद्रसतो विद्यते भुवि।।

क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम्।
अध्वना कर्शितानां च न मांसाद्विद्यते परम्।।

सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां दधाति च।
`नाशो भक्षणदोषः स्याद्दानमेव सदा मतम्।।

क्षुधितानां द्विजानां च सर्वेषां चापि जीवितम्।
दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः।।

शिक्षयन्ति न याचन्ते दर्शयन्ति स्वमूर्तिभिः।
अवस्थेयमदानस्य मा भूदेवं भवानिति।
दानाद्यः सुशुचिर्मांसं पुनर्नैव च भक्षयेत्।।

न भक्ष्योऽभ्याधिकः कश्चिन्मांसादस्ति परंतप।
विवर्जने तु बहवो गुणाः कौरवनन्दन।
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु।।

स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
नास्ति क्षुद्रतरस्तस्मात्स नृशंसतरो नरः।।

न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते।
तस्माद्दयां नरः कुर्याद्यथाऽऽत्मनि तथा परे।।

शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः।
भक्षणे तु महान्दोषो मलेन स हि कल्प्यते।।

`अहिंसालक्षणो धर्म इति वेदविदो विदुः।
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मविन्नरः।।

पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते।'
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति।।

यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः।
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते।।

क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु।
वीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यति।।

आरण्याः सर्वदैवत्याः सर्वशः प्रोक्षिता मृगाः।
अगस्त्येन पुरा राजन्मृगया येन पूज्यते।।

`रक्षणार्थाय भूतानां हिंस्रान्हन्यान्मृगान्पुनः।
नात्मानमपरित्यज्य मृगया नाम विद्यते।।

समतामुपसङ्गम्य रूपं हन्यान्न वा नृप।
अतो राजर्षयः सर्वे मृगयां यान्ति भारत।
न हि लिप्यन्ति पापेन न चैतत्पातकं भुवि।।

न ह्यतः सदृशं किञ्चिदिह लोके परत्र च।
यत्सर्वेष्विह भूतेषु दया कौरवन्दन।।

न भयं विद्यते जातु नरस्येह दयावतः।
दयावतामिमे लोकाः परे चापि तपस्विनाम्।।

अभयं सर्वभूतेभ्यो यो ददाति दयापरः।
अभयं तस्य भूतानि ददतीत्यनुशुश्रुम।।

क्षतं च स्खलितं चैव पतितं क्लिन्नमाहतम्।
सर्वभूतानि रक्षन्ति समेषु विषमेषु च।

नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः।
मुच्यते भयकालेषु मोक्षयेद्यो भये परान्।।

प्राणदानात्परं दानं न भूतं न भविष्यति।
न ह्यात्मनः प्रियतरं किञ्चिदस्तीह निश्चितम्।।

अनिष्टं सर्वभूतानां मरणं नाम भारत।
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः।।

व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च।।

गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः।
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः।।

जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनःपुनः।
हन्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः।।

कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः।
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनःपुनः।।

नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह।
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत्।।

सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत्।
आश्वासं विपुलं स्थानं प्राप्नुयान्नात्र संशयः।।

ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्।
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः।।

मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम्।
एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारत।।

घातको वध्यते नित्यं तथा बध्येत बन्धकः।
आक्रोष्टा क्रुध्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते।।

येनयेन शरीरेण यद्यत्कर्म करोति यः।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते।।

अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः।
अहिंसा परमं दानमहिंसा परमं तपः।।

अहिंसा परमं मिमहिंसा परमं सुखम्।।
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम्।

सर्वदानफलं वाऽपि नैतत्तुल्यमहिंसया।।
अहिंसस्य तपोऽक्षय्यमहिंस्रो जयते सदा।

अहिंस्रः सर्वभूतानां यथा माता यथा पिता।।
एतत्फलमहिंसायां भूयश्च कुरुपुङ्गव।

न हि शक्या गुणा वक्तुमपि वर्षशतैरपि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः।। 178 ।।