अनुशासनपर्व
अध्यायः १८०
व्यास उवाच।
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे।।
अहं त्वां दर्शनादेव तारयामि तपोबलात्।
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते।।
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्।
अवाप्स्य्सि परं र्धर्मं मानुष्ये यदि मन्यसे।।
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश्च ये।
धन्या अपि मनुष्येषु कामार्थाश्च यथा गुणाः।।
वाग्बुद्धिपाणिपादैश्च समुपेता विपश्चितः।
किमायाति मनुष्यस्य मन्दस्यार्थस्य जीवतः।।
दैवे यः कुरुते पूजां विप्राग्निशशिसूर्ययोः।
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि।।
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे।
क्रमात्तेऽहं विनेष्यामि ब्रह्मत्वं यदि चेच्छसि।
भीष्म उवाच।
स तथेति प्रतिश्रुत्य कीटः समवतिष्ठत।।
*तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु।।
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम्।
श्वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु।।
स कीटे एवमाख्यातमृषिणा सत्यवादिना।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः।।
कीट उवाच।
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः।
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्।।
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः।
स्यन्दनेषु च काम्भोजा युक्ताःसमरवाजिनः।।
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्।
सबान्धवः सहामात्यश्चाश्नामि पिशिताशनम्।।
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च।
वरार्हेषु महाभाग स्वपामि च सुपूजितः।।
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः।
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः।।
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः।
यदहं कीटतां प्राप्य स्मृतिजाता जुगुप्सिताम्।
ननु नाशोस्ति पापस्य यन्मयोपचितं पुरा।।
[नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्।
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया।।]
व्यास उवाच।
[अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया।
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिताम्]।।
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना।
ममैतद्दर्शनं प्राप्तं तच्च वै सुकृतं पुरा।
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात्तथा।।
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि।
गोब्राह्मणकृते प्राणान्हित्वाऽऽत्मीयान्रणाजिरे।।
भीष्म उवाच।
राजपुत्रः सुखं प्राप्य ईजे चैवाप्तदक्षिणैः।
अथ चोद्दीप्यत स्वर्गे प्रभूतोप्यव्ययः सुखी।।
तिर्यग्योन्याः शूद्रतामभ्यपैति
शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं
स्वर्गं पुण्याद्ब्राह्मणः साधुवृत्तः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः।। 180 ।।