अनुशासनपर्व
अध्यायः १७७
युधिष्ठिर उवाच।
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया।
श्राद्धेषु च भवानाह पितॄणां मांसमीप्सितम्।।
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा।
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते।।
जातो नः संशयो धर्मे मांसस्य परिवर्जने।
दोषो भक्षयत कः स्यात्कश्चाभक्षयतो गुणः।।
हत्वा भक्षयतो वाऽपि परेणोपहृतस्य वा।
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः।।
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयाऽनघ।
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम्।।
कथमायुरवाप्नोति कथं भवति सत्ववान्।
कथमव्यङ्गतामेति लक्षण्यो जायते कथम्।।
भीष्म उवाच।
मांसस्याभक्षणाद्राजन्यो धर्मः कुरुनन्दन।
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः।।
रूपमव्यङ्गतामायुर्बुद्धिं सत्वं बलं स्मृतिम्।
प्राप्तुकामैर्नरैर्हिंसा वर्जनीया कृतात्मभिः।।
ऋषीणामत्र संवादो बहुशः कुरुनन्दन।
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर।।
यो यजेताश्वमेधेन मासिमासि यतव्रतः।
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर।।
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः।
मांसस्याभक्षणं राजन्प्रशंसन्ति मनीषिणः।।
न भक्षयति यो मांसं न च हन्यान्न घातयेत्।
तन्मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत्।।
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु।
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन्।।
स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
अविश्वास्योऽवसीदेत्स इति होवाच नारदः।।
ददाति यजते चापि तपस्वी च भवत्यपि।
मधुमांसनिवृत्त्येति प्राह चैवं बृहस्पतिः।।
मासिमास्यश्वमेधेन यो यजेत शतं समाः।
न खादति च यो मांसं सममेतन्मतं मम।।
सदा यजति सत्रेण सदा दानं प्रयच्छति।
सदा तपस्वी भवति मद्यमांसविवर्जनात्।।
सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत।
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते।।
`भक्षयित्वा निमित्तेऽपि दुष्करं कुरुते तपः।'
दुष्करं च रसज्ञेन मांसस्य परिवर्जनम्।
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम्।।
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम्।
दाता भवति लोके स प्राणानां नात्र संशयः।
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः।।
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा।
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिः कृतात्मभिः।।
विकीर्णकर्णकेनापि तृणमस्पन्दने भयम्।
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्।
अरोगाणामपापानां पापैर्मांसोपजीविभिः।।
मृत्युतो भयमस्तीति शङ्कायां दुःखमुत्तरम्।
धर्मस्यायतनं तस्मान्मांसस्य परिवर्जनम्।।
अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः।
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते।।
न हि मांसं तृणात्काष्ठादुपलाद्वाऽपि जायते।
हत्वा जन्तुं ततो मांसं तस्माद्दोषस्तु भक्षणे।।
स्वाहास्वाधामृतभुजो देवाः सत्यार्जवप्रियाः।
राक्षसेन्द्रभयान्मुक्ताः सर्वभूतपरायणाः।।
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च।
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च।।
उद्यतेषु च शस्त्रेषु मृगव्यालहतेषु च।
अमांसभक्षणाद्राजन्न भयं तेषु विद्यते।।
शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु।
अनुद्वेगकरो लोके न चाप्युद्विजते सदा।।
यदि चेत्स्वादको न स्यान्न तदा घातको भवेत्।
घातकः खादकार्थाय तद्धातयति वै नरः।।
अभक्ष्यमेतदिति वै इति हिंसा निवर्तते।
खादकक्रमतो हिंसा मृगादीनां प्रवर्तते।।
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते।
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः।।
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः।
उद्वेजकास्तु भूतानां यथा व्यालमृगास्तथा।।
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च।
संसर्गादथ पापानामधर्मो रुचितो नृणाम्।।
स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
उद्विग्नराष्ट्रे वसति यत्र यत्राभिजायते।।
धन्यं यशस्यामायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्।
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः।।
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया।
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे।।
यो हि खादति सांसानि प्राणिनां जीवितैषिणाम्।
सदा भवति वै पापः प्राणिहन्ता तथैव सः।।
धनेन क्रयिको हन्ति खादकश्चोपभोगतः।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः।।
अखादन्ननुमोदंश्च भावदोषेण मानवः।
योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते।।
अधृष्यः सर्वभूतानामायुष्मान्निरुजः सदा।
भवत्यभक्षयन्मासं दयावान्प्राणिनामिह।।
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः।
मांसस्याभक्षणे धर्मो विशिष्ट इति नः श्रुतिः।।
अप्रोक्षितं वृथामासं विधिहीनं न भक्षयेत्।
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः।।
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्म्णकाम्यया।
अल्पदोषमिति ज्ञेयं विपरिते तु लिप्यते।।
खादकस्य कृते जन्तून्यो हन्यात्पुरुषाधमः।
महादोषकरस्तत्र घातको न तु खादकः।।
इज्यायज्ञश्रुतिकृतैर्या मार्गैरबुधोऽधमः।
हन्याज्जन्तून्मांसगृध्नुः स वै नरकभाङ्नरः।।
भक्षयित्वाऽपि यो मांसं पश्चादपि निवर्तते।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते।।
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी।
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते।।
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्।
पुराणमुषिभिर्जुष्टं वेदेषु परिनिश्चितम्।।
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते।
यथोक्तं राजशार्दूल न तु तन्मोक्षकारणम्।।
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि।
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च।
प्रवृत्तिधर्मिणा भक्ष्यं नान्यथा मनुरब्रवीत्।।
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ।
विधिहीनं नरः पूर्वं मांसं राजन्न भक्षयेत्।।
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम्।
स वर्जयेत मांसानि प्राणिनामिह सर्वशः।।
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः।
येनायजन्त विद्वांसः पुण्यलोकपरायणाः।।
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा।
अभक्ष्यमपि मांसं यः प्राह भक्ष्यमिति प्रभो।।
आकाशादवनिं प्राप्तस्ततः स पृथिवीपतिः।
यस्तदेव पुनश्चोक्त्वा विवेश धरणीतलम्।।
प्रजानां हितकामेन त्वगस्त्येन महात्मना।
आरण्याः सर्वदैवत्याः प्रोक्षितास्तापसैर्मृगाः।।
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः।
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः।।
इदं तु शृणु राजेन्द्र मांसस्याभक्षणे गुणाः।
[अभक्षणे सर्वसुखं मांसस्य मनुजाधिप।।]
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्।
यश्चैव वर्जयेन्मांसं सममेतन्मतं मम।।
कौमुद्यास्तु विशेषेण शुक्लपक्षे नराधिप।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते।।
[चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्।
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम्।।
अथवा मासमेकं वै सर्वमांसान्यभक्षयन्।
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः।।
वर्जयन्ति हि मांसानि मासशः पक्षशोपि वा।
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते।।]
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः।
सर्वभूतात्मभूतस्थैर्विदितार्थपरावरैः।।
नाभागेनाम्बरीषेण गयेन च महात्मना।
आयुषाऽथानरण्येन दिलीपरघुसूनुभिः।।
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना।
नृगेण विष्वगश्वेन तथैव शशबिन्दुना।।
युवनाश्वेन च तथा शिबिनौशीनरेण च।
मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो।।
सत्यं वदत माऽसत्यं सत्यं धर्मः सनातनः।
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत्।।
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च।
रैवते रन्तिदेवेन वसुना सृञ्जयेन च।।
एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च।
दुष्यन्तेन करूशेन रामालर्कनलैस्तथा।
विचकाश्वेन निमिना जनकेन च धीमता।।
ऐलेन पृथुना चैंव वीरसेनेन चैव ह।
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च।।
अजेन धुन्धुना चैव तथैव च सुबाहुना।
हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च।।
एतैश्चान्यैश्च राजेन्द्रि पुरा मांसं न भक्षितम्।
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन्।।
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियाऽन्विताः।
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः।।
तदेतदुत्तमं धर्ममहिंसाधर्मलक्षणम्।
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते।।
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः।
जन्मप्रभृति मद्यं च सर्व ते मुनयः स्मृताः।।
इमं धर्मममांसादं यश्चरेनच्छ्रावयीत वा।
अपि चेत्सुदुराचारो न जातु निरयं व्रजेत्।।
पठेद्वा च इदं राजञ्शृणुयाद्वाऽप्यभीक्ष्णशः।
अमांसभक्षणविधिं पवित्रमृषिपूजितम्।।
विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते।
विशिष्टतां ज्ञातिषु च लभते नात्र संशयः।
`अहिंस्रो दानशीलश्च मधुमांसविवर्जितः।।'
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्।
मुच्येत्तथाऽऽतुरो रोगाद्दुःखान्मुच्येत दुःखितः।।
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः।
ऋद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः।।
एतत्ते कथितं राजन्मांसस्य परिवर्जने।
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः।। 177 ।।