अनुशासनपर्व

अध्यायः १७६

Anusasana Parva (Sanskrit) · Adhyaya 176
अक्षर का आकार

वैशम्पायन उवाच।

ततो युधिष्ठिरो राजा शरतल्पे पितामहम्।
पुनरेव महाराज पप्रच्छ वदतांवरः।।

युधिष्ठिर उवाच।

ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात्।।

कर्मणा न नरः कुर्वन्हिंसां पार्थिवसत्तम।
वाचा च मनसा चैवं ततो दुःखात्प्रमुच्यते।।

भीष्म उवाच।

चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः।
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन।।

यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति।
तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः।।

यथा नागपदेऽन्यानि पदानि पदगामिनाम्।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे।।

एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा।
कर्म्णा लिप्यते जन्तुर्वाचा च मनसाऽपि च।।

पूर्वं तु मनसा त्यक्त्वा त्यजेद्वाचाऽथ कर्मणा।
`हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा।।

काये मनसि वाक्येऽपि दोषा ह्येते प्रकीर्तिताः'।
[न भक्षयति यो मांसं त्रिविधं स विमुच्यते।।

त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः।
मनो वाचि तथाऽऽस्वादे दोषा ह्येषु प्रतिष्ठिताः।।]

न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः।
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे।।

पुत्र मांसोपमं जानन्खादते यो विचेतनः।
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः।।

पितृमातृसमायोगे पुत्रत्वं जायते यथा।
हिंसां कृत्वाऽवशः पापो भूयिष्ठं जायते तथा।।

रसश्च हृदि जिह्वाया ज्ञानं प्रज्ञायते यथा।
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत्।।

संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा।
प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते।।

भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान्।
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः।।

`परेषां धनधान्यानां हिसकाः स्तावकास्तथा।
प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः।।

अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च।
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः।।

प्रशंसा ह्येव मांसस्य दोषकल्पफलान्विता।।

`भस्म विष्ठा कृमिर्वाऽपि निष्ठा यस्येदृशी ध्रुवा।
स कायः परपीडाभिः कथं धार्योविपश्चिता।।

जीवितं हि परित्यज्य बहवः साधवो जनाः।
स्वमांसैः परमांसानि परिपाल्य दिवं गताः।।

एवमेषा महाराज चतुर्भिः कारणैः स्मृता।
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः।। 176 ।।