अनुशासनपर्व

अध्यायः १७५

Anusasana Parva (Sanskrit) · Adhyaya 175
अक्षर का आकार

युधिष्ठिर उवाच।

अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः।
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति।।

बृहस्पतिरुवाच।

सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि नित्यशः।
शृणु संकीर्त्यमानानि षडेव भरतर्षभ।।

हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम्।
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेत्।।

त्रिदण्डं सर्वभूतेषु निधाय पुरुषः शुचिः।
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते।।

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः।
आत्मनः सुखमन्विच्छन्स प्रेत्य न सुखी भवेत्।।

आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः।
त्यक्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते।।

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदेषिणः।।

न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः।
एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते।।

प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति।।

यथा परः प्रक्रमते परेषु
तथा परे प्रक्रमन्ते परस्मिन्।
निषेवते स्वसमां जीवलोके
यथा धर्मो नैपुणेनोपदिष्टः।

वैशम्पायन उवाच।

इत्युक्त्वा तं सुरगुरुधर्मराजं युधिष्ठिरम्।
दिवामचक्रमे धीमान्पश्यतामेव नस्तदा।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः।। 175 ।।