अनुशासनपर्व
अध्यायः १७४
युधिष्ठिर उवाच।
अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयाऽनघ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतांवर।।
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम्।।
बृहस्पतिरुवाच।
कृत्वा पापानि कर्माणि अधर्मवशमागतः।
मनसा विपरीतेन निरयं प्रतिपद्यते।।
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम्।।
[यथायथा मनस्तस्य दुष्कृतं कर्म गर्हते।
तथातथा शरीरं तु तेनाधर्मेण मुच्यते।।
यदि व्याहरते राजन्विप्राणां धर्मवादिनाम्।
ततोऽधर्मकृतात्क्षिप्रमपवादात्प्रमुच्यते।।]
यथायथा नरः सम्यगध्रममनुभाषते।
समाहितेन मनसा विमुच्येत तथातथा।
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात्।।
दत्त्वा विप्रस्य दानानि विविधानि समाहितः।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते।।
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर।
नरः कृत्वाऽप्यकार्याणि ततो धर्मेण युज्यते।।
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता।।
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते।।
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः।
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः।।
न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम्।
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना।।
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत्।।
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ।
नरोऽधर्मात्प्रमुच्येत योगेष्वभिरतः सदा।।
भैक्ष्येणान्नं समाहृत्य दद्यादन्नं द्विजेषु वै।
सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि।।
दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते।
पारायणैश्च वेदानां मुच्यते पातकैर्द्विजः।।
गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात्।
वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः।।
सर्वत्यागादिभिश्चैव मुच्यते पातकैर्द्विजः।
सर्वातिथ्यं परं ह्येषां तस्माद्दानं परं स्मृतम्।।
अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति।।
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः।
तेनापोहति धर्मात्मन्दुष्कृतं कर्म पाण्डव।।
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम्।
वैश्योऽददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते।।
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते।।
औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति।।
न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते।।
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते।।
`शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः।
आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतैः।।
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः।।
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम्।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः।।
अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम्।।
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा।
अवन्ध्यं दिवसं कुर्यादन्नपानीयदानतः।।
भोजयित्वा दशशतं नरो वेदविदां नृप।
न्यायविद्धर्मविदुषामितिहासविदां तथा।।
न याति नरकं घोरं संसारांश्च न सेवते।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम्।।
एवं सुखसमायुक्तो रमते विगतज्वरः।
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते।।
एतत्ते सर्वमाख्यातमन्नदानफलं महूत्।
मूलमेतत्तु धर्माणां प्रदानानां च भारत।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः।। 117 ।।